Book Title: Sadhvachar Shatrinshika Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan Catalog link: https://jainqq.org/explore/229655/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ १२२ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ श्रीरूपचदमुनिकृता साध्वाचारषट्त्रिंशिका ॥ - सं. विजयशीलचन्द्रसूरि जैन मुनिना आचारोने लईने प्रार्थना के भावनारूपे रचाएली शान्तरस नीतरती एक सुन्दर शुद्धप्राय काव्यरचना अहीं प्रस्तुत छे. 'साधुपदना शुद्ध आचारोनुं पालन करवानो अने ते रीते आत्मकल्याण साधवानो अवसर मने क्यारे मळशे ?' आवी प्रभु-प्रार्थना ए आ लघु काव्यनो प्रधान सूर छे. छ जीवकायोनी रक्षा, पांच व्रतो, पालन, नव ब्रह्मचर्यनी वाडो, पांच इन्द्रियोनो विषयोपभोग, रात्रिभोजनत्याग, इत्यादि विषयोनुं विशद अने प्राञ्जल भाषामां अहीं वर्णन थयुं छे. ३४ पद्यो शिखरिणी छन्दमां अने छेल्लुं पद्य स्रग्धरामां रचायुं छे. वर्णन हृदयस्पर्शी अने प्रेरणादायी छे. आना रचयिता 'रूपचन्द्र' छे तेवं अन्तिम पद्यथी जाणवा मळे छे. ते साधु छे के गृहस्थ ?, तेमनी परम्परा कई ? समय कयो ? वगेरे मुद्दे कोई खुलासो मळतो नथी. सम्भवतः खरतरगच्छमां थयेला अने 'गौतमीय महाकाव्य'ना प्रणेता वाचक रूपचन्द्र ते ज आ होय तेवू, तेमनी काव्यरचना जोईने मानवानुं मन थाय छे. ते अटकळ साची होय तो तेमनो सत्तासमय १९मो शतक हतो ते निश्चित छे. आ प्रति प्रमाणमां शुद्धप्राय छे, तेनो लेखन संवत् १९६२ छे. भावनगरनी जैन आत्मानन्द सभामांना मुनि भक्तिविजयजीना ग्रन्थसङ्ग्रहगत प्रतिनी, त्यांथी प्राप्त थयेल जेरोक्स नकलना आधारे अहीं सम्पादन करवामां आव्युं छे. नकल आपवा बदल सभाना कार्यवाहकोनो आभार मानुं छु Page #2 -------------------------------------------------------------------------- ________________ फेब्रुअरी २०११ रूपचन्द्रमुनि-रचिता साध्वाचारषट्त्रिंशिका ॥ श्री पार्श्वनाथाय नमः ॥ गृहीत्वा वैराग्यं गृहपरिगृहीत्या' विरहितो भवेयं श्यत्राहं गिरिवनगुहावासमुदितः । प्रसादात् ते॰ पौपापगमजनितान्मे जिन[प]ते ! धृतोत्साहं सिद्धौ किमपि सुदिनाहं भवतु तत् ॥१॥ कदाचिन्मा प्रापत् कमपि परितापं विरहतो मदसीनात् सुप्तादपि सकलराशिस्तनुभृताम् । क्षमन्तां वा जीवाः प्रथममपराधं बहुकृतं ममाऽमीभिर्मैत्रीमिति मुनिपते ! त्वं प्रकटयेः ॥२॥ प्ररक्षन् वा ৺यस्मिन्नलघुलघुजन्तून् स्थिरचरान् दयाविष्टो दृष्ट्या युगमितधरित्रीं परिमृजन् । व्रती वर्तया(न्या?)ऽहं पथि भगवदाज्ञानतिर्गत: स मे भूयात् स्वामी शमरसमयः कोऽपि समयः ॥३॥ स्वर-श्वासस्पर्शादधृतिमिह मा धाद् गुरुजनो मुखं वासःखण्डावृतमुचितमित्येव वदतः । प्रशस्याचारश्चेदयमहमपि प्राणिनिचयप्रसत्त्यर्थं यत्नं जिनवर ! धराणि प्रणिगदन् ॥४॥ विविच्यादौ दोषाञ् श्रुतपरिचितानुद्गममुखान् गृहिभ्यो गृण्हीयां किल किमपि पिण्डं शुचितरम् । कदा कारुण्याब्धे ! यमनियमविद्याधिगतये तनुं तेनैवाहं भृतकमिव भृत्या हि बिभृयाम् ॥५॥ कृपालुः षट्काये विदधदुपयोगं सुविधिना दधीयाथो धर्म्यं समयमनुमुञ्चेयमुपधिम् । १. अङ्गीकारेण । २. किंविशिष्टोऽहम् ? । ३. यस्मिन् दिने । ४. तव । ५. पापविनाशेनोत्पन्नात् । ६. मत्सकाशात् । ७. समये । ८. अनुल्लङ्घितः । १२३ Page #3 -------------------------------------------------------------------------- ________________ १२४ अनुसन्धान- ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २ अथोत्थाने स्थानेऽपि च वपुषि कुर्यां परिमृजां कदैवं देवेशाऽच्चितचरणवृत्तिर्मम भवेत् ॥६॥ धराजीवाधारो ध्रुवमिह च का जीवगणना तथा तेषां शस्त्रं खलु भवति मानुष्यकमलः । अयं योनिः केषाञ्चिदपि च विमृश्येति चतुरं यतेयैतत्यागे दिश मुनिपते ! तां मुनिदशाम् ॥७॥ यतः सत्यं सद्भ्यो हितमिति निरुक्त्या निगदितं प्रतीपं चासत्यं स्पृहयति न तत् सत्तमपुमान् । अतो मिथ्यावादादहमुपरमाणीत मृग जगत्त्रातस्तात ! प्रथम शिवदायि व्रतमिदम् ॥८॥ श्रुते कस्मिन्नास्था प्रकृतिरपि का कौ सुरगुरू भवन्त्यस्य श्रोतुः प्रथममिति संचिन्त्य मनसा । वचो वाच्यं तथ्यं मितमितरथा मौनमुचितं कदाऽथो नाथ ! स्यां निपुणवचनोऽनेन विधिना ॥९॥ यतः क्रोधाध्मातः प्रकटयति कर्माणि पुरुष: परेषां पारुष्याकुलबहुलजल्पः प्रलपति । ततस्तावद् रोषं व्रतविधृतये दुर्जनमिव प्रजह्यां जीवौघाभयद ! जगदुद्धारक ! कदा ? ॥१०॥ समस्तोऽपि त्रस्तो भवति भवभृत् सर्वभयतः ततो मायाधाम प्रविशति जिघृक्षुः सुखभरम् । समस्त्यैवैतत्तु स्फुटमनृतवाक्येष्टकचितं व्रतत्राणायेशाऽऽदिश मयि भयोन्मूलनमतः ॥ ११॥ जनो धुन्वन्नङ्गं विकृतगतिको वक्रितमुखः सद:प्रीत्यै हास्यं प्रच(चि) कटयिषुर्जल्पति मृषा । ततोऽनर्थापातः प्रभवति परत्रेह च भवे विभो ! तन्मां कुर्या व्रतगुणभृतं हास्यविमुखम् ॥१२॥ शरीरे सारे वा पुरुहपरिवारेऽपि भवभृद् भृशं लुब्धो वाञ्छन् सुखमनृतमेव व्यवहरेत् । Page #4 -------------------------------------------------------------------------- ________________ फेब्रुआरी २०११ १२५ स्पृहाध्वंसो यस्मिन्नहनि न मृषावागपि तदा कदाऽतस्त्रातः ! स्यां व्रतविततये निःस्पृहतमः ॥१३।। अहो ! दृष्टं कष्टं प्रकटमिह पुंसां परमुषामदत्तस्याऽऽदानान्महदघमिदं निश्चितमतः । व्रतादानेनाथाऽवधृतसुविधोऽहं तदखिलं यथा प्रत्याख्यायां त्रिजगदधिप ! त्वं कुरु तथा ॥१४॥ गृहाधीशादिष्टं श्रुतगदितदोषोज्झितगृहं गुहा वा गोत्राणां सघनगहनं वा पितृगृहम् । निषद्या या काचित् सुरनृपजनाज्ञाग्रहमनु व्रताबाधाय मे भवतु भगवा(व)न् ! सा वसतये ॥१५।। गृहस्थोऽर्थ्यः शय्यासनफलकदर्भाधुपधये स वा दद्याद् यावत् स[कल]मथ तद् ग्राह्यमृषिणा । परस्मिन् कालेऽस्मान्मतमिदमदत्तं मम पुनः तदाज्ञामप्रापाऽनुचितमुपभोगाय भवतात्(?) ॥१६।। स्वयं वा क्षेत्रेणाऽवधिरथ च कालेन विधृतः पुरे वा ग्रामे वा वसतिमुपभोक्तुं प्रथमतः । परीहारस्तस्मात् परमुचित एवाऽव्रतभिया मयाऽयं स्वाचारो भवति वहनीयो जिन ! कदा ? ॥१७॥ अदूष्यं चेद् भैक्ष्यं भवति न तथापि व्रतभृतः स्वभोगायाऽदत्वा स्वकुलगणसाम्भोगिकमुनीन् । अदत्तं चाऽदानादिदमपि मुनीन्द्रेण गदितं । ततस्तन्नेच्छेयं सममसमयः स्ताच्छुभतमः ॥१८॥ यतेर्भक्तिस्थानं स्वकुलगणसङ्घाज्जिनगृहं गणी वा ग्लानो वा गुरुरथ च शैक्ष्योऽप्यभिहितम् । अभक्त्या चैतेषां निजजठरदत्तं यदशनं भवेत् तच्चाऽदत्तं मम मुनिप ! मा भूदघमदः ॥१९।। जनेऽस्मिन् प्रत्यक्षा यदनु जनिता जीवितहृतः कियत्यः कीर्त्यन्ते कलहहननाद्यादिविपदः । Page #5 -------------------------------------------------------------------------- ________________ १२६ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ तदब्रह्मोपास्ति कथमृषिजनः कांक्षितुमलं ततो मामेतस्मात् कुरु विरतिमन्तं शमनिधे ! ॥२०॥ पशुस्त्रीपण्डानां ननु विविधचेष्टाः स्मरकृता निरीक्ष्याऽधीरः स्यात् स्मरजिदपि योगी विकृतिभाक् । ततस्तैः संवासो वृजिनजनको विष्टपपते ! वृषेच्छो यान्मे मदनविजिगीषोरविषयः ॥२१॥ गतीर्जातीर्वेषान् रतविलसितानि प्रियगिरो मृगाक्षीणां हावान् जनसदसि संश(शंस)न्निह जनः । तदर्थस्मृत्या तु स्मरविकृतिमृच्छत्यथ न किं ततस्तासां कीर्तिरि(तीर)पि परम ! माऽचीकथमहम् ॥२२॥ इयं रामा श्यामा कृशकटितटीयं शशिमुखी सुनेत्रेयं गौरी गुरुतरनितम्बा घनकुची । स्त्रियं पश्यन् साधुर्विकृतिजविकल्पानिति वहेत् ततोऽङ्गानि स्त्रीणां मम कथमपेयानि न दृशा ? ॥२३।। स्मरेत् कामान् भोगान् प्रथमपरिभुक्तान् यदि यती तदा ब्रह्मोपास्तेः परिपतनमेति प्रचलितः । ततोऽनर्थः कोऽपि प्रभवति महांस्तेन नियमे स्थितस्यातीचारो मम मुनिपतेऽयं भवतु मा ॥२४॥ यतः पुष्णत् कायं तदुपगतधातूनधिसृजद् ददत् तानुन्मादं मदनमथ चित्ते प्रमदयत् । सतत्त्वं हन्त्येवं सरसमशनं संयमिपते ! ततोऽहं मा भूवं रसयुगतिमात्राशनरुचिः ॥२५॥ अनन्तं कालं यज्जगति लुठितः स्थावरतया मुहुर्जातश्चैवं जडतरमतिर्जङ्गमतया । परिग्रह्येवाहं नवनवभवानस्पृशमतो महीयो देया मे सकलपरसंयोगविरतिम् ॥२६॥ मनोज्ञेष्वर्थेषु श्रवणविषयेषु प्रलुभितः क्रियाभ्यः पापाभ्यो न विरमति मूढः स्वमनने । Page #6 -------------------------------------------------------------------------- ________________ फेब्रुआरी २०११ १२७ द्विषन् दुःशब्दानामनवरतमेवं दुरितकृत् । ततो गायँ नादग्रहकरणगं मे हर विभो ! ॥२७।। विधाप्याथो रूपे ध्रुवमभिमते रागविवशं तथाऽनिष्टे द्विष्टं सततविकलं मां स्वकलने । विनाऽन्तर्नेत्राभ्यामिह परिगृहीतोऽहमभवं प्रभूताशातस्तन्मम भुवि कदा स्यात् स्ववशता ? ॥२८॥ जिघृक्षन्निर्यासं सुरभितरसारं सुमनसां पशून् हिंसन् वस्कन्यपि(?) मृगमदाद्ये त्वभिमते । अहो ! प्राणी घ्राणेन्द्रियपरिगृहीतोऽघनिचयं न कं कुर्यान्नाथ ! प्रतिदिश ततो मेऽस्य विजयम् ॥२९॥ न हन्तव्या जीवा इति मनसि जानन्नपि जनो निहत्यैतान् भुङ्क्ते तदनु जगति भ्राम्यति भृशम् । कथं नो मूढः स्याद् बत परिगृहीतो रसनया ततो मामेतस्याश्चरितविजयायाऽऽदिश विभो ! ॥३०॥ सुखान् स्पर्शानिच्छन्ननुदिनमनिच्छन्नसुखदान् महारम्भं मूढो महयति भवाब्धौ भ्रमति तत् । इति श्रद्धायेश ! स्वसहजसमाधाननिरतः कदा रागद्वेषापनयनपटुः स्यामहमिह ॥३१॥ तमोरूपेऽप्काये प्रसरति भृशं लोककुहरे सचित्तं स्यात् सर्वं न च किमपि दृश्यं जनदृशा । कथङ्कारं साधुः प्रभवति तदा भोक्तुमशनं विहर्तुं वा भूमौ तदिह मम मा भूदिदमघम् ॥३२॥ अयं साधुः शान्तो मृदुरयमृजुनिस्पृहतमस्तपस्वी संयन्ता हितमधुरवादी शुचिरयम् । अकिञ्चित्को ब्रह्मव्रतभृदिति यत्र क्षितितले भविष्यामि ख्यातो मम जिन ! कदा भावि तदहः ? ॥३३॥ स्थिति छिन्दन् भिन्दन् रसमखिलकर्मस्वविरलं स्वमात्मानं शुद्ध्याऽगणितगुणवृद्ध्या विमलयन् । Page #7 -------------------------------------------------------------------------- ________________ 128 अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ तथा किट्टीकृत्योत्कटमपि किरन् पुद्गलमलं स्वयं स्वं पश्येयं स्थिरतरमनाः पारग ! कदा ? // 34 // भवाभ्यासं हित्वा प्रबलमपि जित्वा रिपुबलं स्वसंवेदी भूत्वा सममपि विदित्वा वसुचयम् / तनोर्योगं मुक्त्वा शिवपदमुषित्वा त्रिजगतां यथाहं नाथ ! स्यां मम भव सहायोऽनघ ! तथा // 35 // इत्थं मोक्षाध्वगानामभिलषितसुखोत्तानदाने वदान्यो देवेन्द्रवातवन्द्योऽद्भुतमहिमरमः श्रीमहावीरनेता / संसाराम्भोधिपारं प्रतिजिगमिषुणा रूपचन्द्रेण सान्द्रानन्दार्थं प्रार्थ्यमानो निखिलतनुभृतां भूयसे श्रेयसे स्तात् // 36 // इति श्रीसाध्वाचारषट्विंशिका समाप्ता / / संवत् 1962 फागुणमासे बोरसदी लहिया शंकर वेंणीदास / समाप्तं / ग्रन्थाग्रं 75 //