Book Title: Ratnaparikshadi Sapta Granth Sangraha
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

Previous | Next

Page 205
________________ १०८ ठकुरफेरूविरचित ज्योतिषसार ग्रन्थान्ते लिखितानि कानिचित् पद्यानि उत्तरायां महिषीनाम योगिनी योगनामिनी। दशम्यां च द्वितीयायां उदयं कुरुते सदा ॥ ३ एकादश्यां तृतीयायां मेषरूढा तु योगिनी । कुमारी नामविज्ञेया आग्नेयी दृश्यते यथा ॥४ श्वानपृष्ठिगता देवी चतुर्थी द्वादशी तथा । नैर्ऋत्यां दिशमासृत्य सिंहनारायणी सदा ॥५ वाराही योगिनी नाम सिंहारूढा सुदुर्धरा । पंचम्यां त्रयोदश्यां च दक्षिणे उदयं सदा ॥ ६ वारुण्यां दिशमासृत्य ब्राह्मणी वृषगामिनी। चतुर्दश्यां तु षष्ठयां च उदयं कुरुते सदा ॥७ चटित्वा तु खरपृष्ठिं चामुंडी चण्डरूपिणी । सप्तम्यां पूर्णिमायां च वायव्ये उदयं सदा ॥८ महालक्ष्मी महादेवी ईशान्यां वृषसंस्थिता । काके रूढा सदा देवी अमावास्याष्टमीदिने ॥९ एवं तु योगिनीचक्रं ज्ञायते यस्तु मानवः । विजयं लभेत् संग्रामे युद्धेषु रणसंकटे॥ द्यूते वा विवहारे वा विवादे जायते शुभम् ॥ श्वानकुर्कुटनालानां मेषेण महिमादिषु। विजयं जायते तस्य यस्य पृष्ठे तु योगिनी ॥ अथ सन्मुखयोगिन्यां संग्रामेषु रणेषु च । गम्यते युध्यते पुंसां न सिद्धिर्जायते कचित् ॥ ॥ योगिनी चक्रम् ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206