Book Title: Ratnaparikshadi Sapta Granth Sangraha
Author(s): Agarchand Nahta, Bhanvarlal Nahta
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
________________
परिशिष्टम्। मूलप्रतौ ज्योतिषसारग्रन्थान्ते निम्नलिखितानि ज्योतिषविषयसम्बद्धानि कानिचित् स्फुटपद्यानि प्राप्तानि, तानि परिशिष्टरूपेणात्र मुद्रितानि । लाभ-विक्रम-ख-शत्रुषु स्थितः शोभनो निगदितो दिवाकरः खेचरैः। सुत-तपो- जलीत्यगैार्किभिर्यदि न विध्यते तदा ॥१ धून-जन्म-रिपुं-लाम-खं-त्रिंगश्चन्द्रमाः शुभफलप्रदस्तदा । खात्मजान्त्य-मृतिबन्धु-धर्मगैर्विध्यते न विबुधैर्यदि ग्रहैः ॥२ विक्रमाय-रिपुर्गः शुभः कुजः स्यात्तदान्त्य - सुत-धर्मगैः खगैः। चेन्न विद्ध इनसूनुरप्यसौ किंतु मर्म घृणिना न विध्यते ॥ ३ खायु-शत्रु मृति -खों - ऽयंगः शुभो ज्ञस्तदा न खलु विध्यते यदा। आत्म-त्रि-नव-आये-नैधन-प्रांत्यगैर्विधुभिर्नभश्वरैः॥४ खाय-धर्म-तनय-यूँनस्थितो नाकिनायकपुरोहितः शुभः। रिप्फ-रन्धं-खं-जलॅत्रिगैर्यदा विध्यते गगनचारिभिर्न हि ॥५ आसुताष्टमसुतो व्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः। नैधास्त-तनु-कर्म-धर्मधी लाभ-वैरि'-सहजस्थखेचरैः ॥ ६ एवमत्र खचरा व्यधान्विताः सत्फलं नहि दिशन्ति गोचरे। वामवेधविधिना त्वशोभना अप्यमी शुभफलं दिशन्त्यलम् ॥७
॥इति ग्रहाणां वामवेध-दक्षिणवेधयोः फलम् ॥ सर्वेषामेव दोषाणां वर्जयेद् घटिकाद्वयम् । उत्पातमृत्युकाणानां सप्त षट् पश्च नाडिका ॥१ बहवोऽप्येवं जगदुः सिंहारूढोऽपि वृत्रशत्रुगुरुम् । समतिकान्तमघों न विरुद्धः सर्वकार्येषु ॥ २ आत्मोपेक्षक-पोषक-वधकानिह जन्मराशि-चन्द्राभ्याम् । घटिकास्तिथिरसरुद्रार्द्धसार्द्धद्वयशकलचरमान्ताः ॥३
योगिनीचक्र प्रवक्ष्यामि दिव्यं परममुत्तमम् । जयं च विजयं चैव येन जायन्ति भूतले ॥१ इन्द्राणी पूर्वभागेषु योगिनी नाम नामतः। प्रतिपदानवम्यां च उदयं कुरुते सदा ॥२
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 202 203 204 205 206