Book Title: Raivatkadrimandan Nemijin Stotram Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 4
________________ ऑगस्ट २०११ ३७ विश्वं विवस्वति विभासयति प्रभाभिः को वान्धकारनिकरस्य किलावकाशः ॥६॥ कल्पद्रुमः प्रकुरुतां किमभीष्टजातं । ___ कस्याऽस्तु वा सुरमणी रमणीय एषः । कृत्वाऽथ किं भवतु कामदुघाऽप्यमोघा सङ्कल्पिताऽधिकफलं समवाप्य नेमिम् ॥७॥ मायानिशि स्फुरितमोहमहाप्रमीला सम्मीलितं नयनमान्तरमेतदीश ! । विश्वत्रयप्रकटनाय पटीयसीभिर् ___ गोभिः प्रबोधकलितं यदि तावकीभिः ॥८॥ भालं विशालमिदमिन्दुकलाऽभिरामं किं वर्ण्यते त्रिदशवन्दितपादपद्मम् ! । नैवं व्ययं लवणिमाऽमृतमेति यत्र पेपीयमानमपि नेत्रचकोरवृन्दैः ॥९॥ काऽपि प्रभो ! तव विशाल विलोचनानां । छायाकपोलयुगलं कमनीयकान्ति । कर्णद्वयं त्रिजगतीकमलाविलास दोलाकलं बत न कस्य मुदं दधाति ॥१०॥ कलिमलकलुषानां प्राणिनां पावनी ते विमलरुचिजलौघैः पूरिता मूर्तिरेषा । अमरसरिदिवाऽलं पापजम्बालजालं विदलयति विशालं देव ! मे सर्वकालम् ॥११॥ त्रिदशपुरपुरन्ध्रीरूपरेखाविषाद क्षमलवणिमलीला भोजपुत्रीं विहाय । कलितविरतिभावः पावयामास नेमे ! निजचरणसरोजैस्तं भवान् रैवताद्रिम् ॥१२॥ सिर(त)करकराकारा कीर्त्तिन मे हृदयप्रिया सकलललनालीलालापा विलापसमा मताः ।Page Navigation
1 2 3 4 5