Book Title: Raivatkadrimandan Nemijin Stotram Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 3
________________ अनुसन्धान-५६ रत्नाकरपञ्चविंशतिकामां 'नरेन्द्रदेवेन्द्रनतांहिपद्म, नेमिनाथ माटे 'नेमिन्', राजीमती माटे गोत्रनाम ‘भोजपुत्री'५ अने सरसीयते(नामधातु) अने 'पेपीयमान (यङ्गन्त) प्रयोगो स्तोत्रने उदात्त बनावे छे. ___"रत्नाकरसूरिविरचितम् रैवताद्रिमण्डननेमिजिनस्तोत्रम्" श्रीरैवताद्रिकमलापृथुकण्ठपीठ शृङ्गारहारतुलनां कलयन्ति यस्य । स्फारस्फुरत्क्रमनखद्युतयोऽतिदीप्राः, श्रीनेमिनं जिनवरं तमहं स्तवीमि ॥१॥ नेमे ! तव स्तवनमुज्ज्वलकेवलात्म रूपस्य गीष्पतिसमोऽपि न कर्तुमीशः । अन्तस्तथाऽपि परितोऽपि हि विस्फुरन्तीं लोलां करोति तव भक्तिरियं विलोलाम् ॥२॥ काले कलौ किल निदाघतुलां दधाने निःशेषसंवरपदेषु तनूभवत्सु । रोचिर्जलैः सुविमलैः सरसीयतेऽसौ देव ! त्वदंहियुगलीयुगलं(?) भवतापभेदि ॥३॥ येनोच्छदच्छविपदं विपदन्तकारि नेमे ! विभो ! शुभवतो भवतोऽह्रियुग्मम् । यायादसौ नरमणी रमणीयभावं केषामहो सुमनसां मनसां न लोके ? ॥४॥ रागादिविद्रुतमना नहि ना त्वदीयं द्रष्टुं स्वरूपममलं तदलम्भविष्णुः । किं नीलिकागलितलोचनशक्तिरुच्चैः पश्येत् कदापि विलसत् शशलक्ष्मबिम्बम् ॥५॥ दृष्टेऽधुना तव पदाम्बुरुहे पलायाञ् चक्रेऽन्तरङ्गरिपुचक्रमिदं हृदो मे ।Page Navigation
1 2 3 4 5