Book Title: Pratham Jin Stotra
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ ऑगस्ट २०११ ___५३ कीदृशम् ? सुराधीशाः = चतुःषष्ठिदेवेन्द्रास्तैः संसेव्यं = पूजनीयम्, पादारविन्दं = चरणकमलम् । पुनः कीदृशम् ? स्फुरत् = दीप्रत्, चारु = मनोहरम्, चामीकरं = सुवर्णम्, तद्वत् द्योति = दीप्यमानम्, देहं = शरीरम्, यस्य सः, तं सुवर्णवर्णम् । ईदृशं युगादीशं = आदीश्वरजिनम्, सोपारके = सोपारकपत्तने, अहं जयानन्दसूरिः, आनौमि = प्रणमामि ॥१॥ तितीर्षामि सिन्धुं भुजाभ्याममानं, चिकीर्षामि पीयूषयूषस्य पानम् । तितंसामि यन्मन्दधीस्तावकानां, स्तवादेव सङ्ख्यातिगानां गुणानाम् ॥२॥ तरितुमिच्छामि = तितीर्षामि । सिन्धुं = समुद्रम्, अमानम् = मानप्रमाणं तद्रहितममानम्, काभ्याम् ? भुजाभ्यां = बाहुभ्याम्, निजबाहुभ्याम् । पुनः किर्ति(कर्तु)मिच्छामि चिकीर्षामि । पीयूषयूषस्य = अमृतरसस्य, पानं = आस्वादनम् । तनोतुमिच्छामि = तितंसामि । यद् अहं मन्दधीः = अल्पबुद्धिः सन् तावकानां = त्वदीयानाम्, सङ्ख्यातिगानां = सङ्ख्य(ङ्ख्या)या अतिगानां अतिक्रान्तानाम्, गुणानां ज्ञानदर्शनचारित्रादिलक्षणानां, स्तवादेव = स्तवनादेव विस्तारयितुमिच्छामि ॥२॥ मनश्चिन्तितातीतवस्तुप्रदेन, द्युसत्पादपेन त्वया जङ्गमेन । नवः कोऽप्ययं नन्दनोद्यानदेशः, प्रभो भ्राजते कुङ्कणाख्यातदेशः ॥३॥ मनश्चिन्तितात् अतीतं = अतिक्रान्तं यद्वस्तु तद्वस्तु-ददातीति मनश्चिन्तितातीतवस्तुप्रदः, तेन मनश्चिन्तितातीतवस्तुप्रदेन ईदृशेन घुसत्पादपेन = कल्पवृक्षेण, त्वया = भवता, जङ्गमेन = पादक्रमणशीलेन त्वया नवः = नवीनः, कः = अनिर्वचनीयः अपि अयं = प्रत्यक्षः, नन्दनोद्यानदेशः = नन्दनवनभूमिसदृशः, हे प्रभो ! = हे स्वामिन् !, भ्राजते = शोभते, कुङ्कणनामदेशः। भावार्थोऽयम्, त्वया कल्पवृक्षेण कुङ्कणदेशः भ्राजते ॥३॥ मयाप्तं फलं जन्मकल्पद्रुमस्य प्रभुत्वं च विश्वस्य विश्वत्रयस्य ।

Loading...

Page Navigation
1 2 3 4 5 6 7