Book Title: Prameykamalmarttand Parishilan
Author(s): Udaychandra Jain
Publisher: Prachya Shraman Bharati

Previous | Next

Page 336
________________ परिशिष्ट-३ : परीक्षामुखसूत्रपाठ २८१ उपनयः ॥ ५० प्रतिज्ञायास्तु निगम-नम् ॥५१॥ तदनुमानं द्वेधा ॥५२॥ स्वार्थपरार्थभेदात् ॥५३॥ स्वार्थ-मुक्तलक्षणम् ॥ ५४॥ परार्थं तु तदर्थपरामर्शिवचनाज्जातम् ॥५५॥ तदूचनमपि तद्धेतुत्वात् ॥५६॥ स हे तुट्टेधा उपलब्ध्यनुपलब्धिभेदात् ॥५७॥ उपलब्धि-विधिप्रतिषेधयोरनुपलब्धिश्च ॥ ५८॥ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् ॥ ५९॥ रसादेकसामग्र्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित् कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरा वैकल्ये ॥ ६० ॥ न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः ॥६१ ॥ भाव्यतीतयोर्मरणजाग्रबोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् ॥६२ ॥ तद्व्यापाराश्रितं हि तद्भावभावित्वम् ॥६३॥ सहचारिणोरपि परस्परपरिहारेणावस्थानात् सहोत्पादाच्च ॥६४॥परिणामी शब्दः कृतकत्वात्, य एवं स एवं दृष्टः यथा घटः, कृतकश्चायं तस्मात् परिणामी । यस्तु न परिणामी स न कृतकः यथा वन्ध्यास्तनन्धयः, कृतकश्चायं, तस्मात् परिणामीति ॥६५॥ अस्त्यत्र देहिनि बुद्धिाहारादेः ॥६६॥अस्त्यत्र छाया छत्रात् ॥ ६७॥ उदेष्यति शकटं कृत्तिकोदयात् ॥६८॥ उदगाद् भरणिः प्राक् तत एव ॥६९ ॥ अस्त्यत्र मातुलिते रूप रसात् ॥७० ॥ विरुद्धतदुपलब्धिः प्रतिषेधे तथेति ॥७१ ॥ नास्त्यत्र शीतस्पर्श औष्ण्यात् ॥७२॥ नास्त्यत्र शीतस्पर्शो धूमात् ॥७३॥ नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ।। ७४ ॥ नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ॥७५ ॥ नोदगाद् भरणिर्मुहूर्तात् पूर्वं पुष्योदयात् ॥ ७६ ॥ नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् ॥ ७७ ॥ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलम्भभेदादिति ॥ ७८॥ नास्त्यत्र भूतले घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः ॥ ७९ ॥ नास्त्यत्र शिंशपा वृक्षानुपलब्धेः ॥ ८० ॥ नास्त्यत्राप्रतिबद्धसामर्थ्योऽनिधूमानुपलब्धेः ॥ ८१॥ नास्त्यत्र धूमोऽननेः ॥ ८२ ॥ न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुपलब्धेः ॥ ८३॥ नोदगाद्भरणिर्मुहूर्तात् प्राक् तत एव ।। ८४ ॥ नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः ॥ ८५ ॥ विरुद्धानुपलब्धिर्विधौ त्रेधा विरुद्धकार्यकारणस्वभावानुपलब्धिभेदात् ॥८६॥ अस्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामय- . चेष्टानुपलब्धेः ॥ ८७॥ अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥ ८८ ॥ अनेकान्तात्मकं वस्त्वेकान्तानुपलब्धेः ॥ ८९॥ परम्परया संभवत्साधन- .

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340