Book Title: Prameykamalmarttand Parishilan
Author(s): Udaychandra Jain
Publisher: Prachya Shraman Bharati

Previous | Next

Page 339
________________ २८४ प्रमेयकमलमार्तण्ड परिशीलन सन्ति धावध्वं माणवकाः ॥५२॥ अङ्गल्यग्रे हस्तियूथशतमास्ते इति च ॥५३॥ विसंवादात् ॥ ५४॥ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥५५॥ लौकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेवासिद्धरतद्विषयत्वात् ॥५६॥ सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैरेकै काधिकैर्व्याप्तिवत् ॥५७॥ अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥ ५८॥ तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वमप्रमाणस्याव्यवस्थापकत्वात् ॥ ५९॥ प्रतिभासभेदस्य च भेदकत्वात् ॥६० ॥ विषयाभासः सामान्य विशेषो द्वयं वा स्वतन्त्रम् ॥६१ ॥ तथाऽप्रतिभासनात् कार्याकरणाच्च ॥६२॥ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥ ६३ ॥ परापेक्षणे परिणामित्वमन्यथा तदघटनात् ॥ ६४॥ स्वयमसमर्थस्याकारकत्वात् पूर्ववत् ॥६५॥ फलाभासं प्रमाणादभिन्न भिन्नमेव वा ॥६६॥ अभेदे तद्व्यवहारानुपपत्तेः ॥६७॥ व्यावृत्त्यापि न तत्कल्पना फलान्तराद्व्यावृत्याऽफलत्वप्रसंगात् ॥६८॥ प्रमाणान्तराद् व्यावृत्येवाप्रमाणत्वंस्य ॥६९ ॥ तस्माद् वास्तवो भेदः ॥ ७० ॥ भेदे त्वात्मान्तरवत् तदनुपपत्तेः ॥ ७१ ॥ समवायेऽतिप्रसङ्गः ॥७२॥ प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहतापरिहतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च ॥७३॥ सम्भवदन्यद्विचारणीयम् ॥७४॥ परीक्षामुखमादर्श . हेयोपादेयतत्त्वयोः । संविदे मादृशो बालः परीक्षादक्षवद् व्यधाम् ॥

Loading...

Page Navigation
1 ... 337 338 339 340