Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
न्यायालङ्कारालङ्कृता। १५५ द्योतनात् । स्यात्पदाभावे तु सर्वथैकान्तव्यवच्छेदनानेकान्तप्रतिपत्तिः कुतः ? एवकारावचने विवक्षितार्थाप्रतिपत्तिवत् इति युक्तं स्यात्पदम् इति ।
एवं च स्यादस्त्येव घटः इत्यस्य स्वरूपाचवच्छिन्नास्तित्वाश्रयो घटः । स्यानास्त्येव घट इत्यस्य च पररूपाधवच्छिन्ननास्तित्वाश्रयो घटः, अवच्छेदकभेदेन एकत्रैवास्तित्वनास्तित्वयोरविशेषात् कः खलु न प्रत्येति एकत्रैव धूपघटादाववच्छेदकभेदेन शीतोष्णस्पर्शी । कश्च प्रकृते एकत्रैव वस्तुनि सर्वत्र स्वरूपेण सत्त्वस्य पररूपेणासत्त्वस्य च वर्तमानत्वे बाधः, इतरथा हि वस्तुत्वमेव विलीयेत, स्वपररूपोपादानापोहनव्यवस्थाप्यं हि वस्तुनो वस्तुत्वम् ।
'ननु घटस्य किं स्वरूपं किंवा पररूपम् इति चेत् ? अत्र ब्रूमः- घट इत्यादिबुद्धौ प्रकारतया भासमानो घटपदशक्यतावच्छेदकीभूतस्तिर्यक्सामान्यरूपो यो घटत्वाख्यो धर्मः स घटस्य स्वरूपम् तदितरत् पटत्वादि पररूपम् । तत्र च घटतादिस्वरूपेणेव पटत्वादिपररूपेणापि घटस्य सत्त्वाङ्गीकारे पटात्मकत्वप्रसङ्गः पटत्वादिनेव घटत्वादिनाप्यसत्त्वे शशशृङ्गवच्छ्रन्यत्वापत्तिः । ___ एवं घटस्य स्वद्रव्यं मृव्यम् परद्रव्यं सुवर्णादि । तथाच घटो मृदात्मनास्ति सुवर्णाद्यात्मना नास्ति घटस्य स्वद्रव्यात्मनेव परद्रव्यात्मनापि सत्चे घटो मृदात्मको न सुवर्णात्मा इति नियमो न स्यात् तथाच द्रव्यप्रतिनियमव्याहतिः।। ___ एवं घटस्य स्वीयं क्षेत्रं भूतलादि परक्षेत्रं कुड्यादि घटः सौवक्षेत्रेस्ति परत्र नास्ति । घटस्य स्वक्षेत्रवत् परत्रापि सत्त्वाङ्गीकारे प्रतिनियतक्षेत्रत्वानुपपत्तिः । परक्षेत्र इव स्वक्षेत्रेप्यसद्भूतत्वे च साधारत्वविरोधः। .............
तथा घटस्य सौवः कालो वर्तमानकालः परकालोऽती

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236