Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 181
________________ न्ययालङ्कारालङ्कृता । १६७ नयविषयीकृतवस्तुधर्मस्य भेदवृत्तिप्राधान्येन भेदव्यपदेशेन वा क्रमेणाभिधायि वचनं विकलादेशः । यथा खलु सकलादेशस्वभावं प्रमाणवाक्यं स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुगन्त, तथैव विकला देशस्वभावं नयवाक्यमपि द्रष्टव्यम् । प्रमाणसप्तभङ्गीवच्चैतस्य विचारः करणीयः, नयसङ्गभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्य एवकारस्य च प्रयोगसद्भावात् ; तासां विकलादेशभावादेव सकलादेशरूपायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी, वस्त्वंशमात्रमरूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी सम्पूर्णवस्तुप्ररूपकत्वादिति । नयस्य फलमभ्यूहनीयम् । नवरमिह श्रमाणवच्च वस्त्वेकदेशतास निधानीय इति । तथाचालौकिकीयं रत्नप्रभसुवर्णावली " या प्रश्नाद विधिपर्युदासभिदया बाघच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदोश देव ! भवता सा सप्तभङ्गी यया जल्पन् जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात् " ॥ १ ॥ सम्मतिपर्यवसाने च "जेण विणा लोगस्स वि ववहारों सव्वहा न निव्वडई । तस्स भुवणेकगुरुणो णमो अणगंतवायस्स” ॥ १॥ इति ॥ १०॥ इत्याचार्यश्रीविजयधर्मसूरीश्वर विहितायाः प्रमाणपरिभा पाया वृशिभूते मुनिश्री न्यायविजयप्रणीते न्यायालङ्कारे आगमनय सप्तभङ्गीस्वरूपचर्चाचतुरचतुर्थः परिच्छेदः ॥ ४ ॥ MARP

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236