Book Title: Prakrit Pingal Sutrani Author(s): Lakshminath Bhatta, Sivdatta Pt Publisher: Tukaram Javaji View full book textPage 5
________________ भूमिका। प्राकृतच्छन्दोलक्षणसूत्रकर्तापि स एव पिङ्गलः, येन संस्कृतच्छन्दोलक्षणसूत्राणि निर्मितानि. यतो वैदिकैस्तदादौ पठ्यमाने 'मयरसतजभनलगसंमितं भ्रमति वाङ्मयं जगति यस्य । स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः ॥' इति श्लोके सर्वोत्कर्षाश्रयत्वेन वर्णितस्य पिङ्गलनागस्यैवात्रापि तत्र तत्र 'सप्पाराआ शुद्धाकाआ जम्पे पिङ्गल' (सर्पराजः शुद्धकायो जल्पति पिङ्गलः ।) 'इअ जम्पइ कइराआ पिङ्गलणामप्पसिद्धफणिन्दा' (इति जल्पति कविराजः पिङ्गलनामप्रसिद्धफणीन्द्रः ।) इति छन्दोलक्षणसूत्रेषु वर्णनात्, एवं च तस्य कालनिर्णयोऽनावश्यकः. उदाहरणानि च केनचित्कविना नानाकविकृतानि हम्मीर कुमारपालपूर्वपूरुषकर्णराजादिवर्णनवृत्तानि संगृह्य योजितानि, इति सांप्रदायिकः पन्थाः. आधुनिकास्तु-तत्र तत्र 'जम्पे पिङ्गल' इत्यादिदर्शनात्सूत्राण्युदाहरणसंगृहीतपिङ्गलेतरतटस्थकर्तृकाण्येव भवेयुरिति हम्मीरवर्णनात्मकोदाहरणानां सत्त्वादनुमीयते'हम्मीरराज्यकालचतुर्दशशतकतो न प्राचीनानि सूत्राणि' इति' इति वदन्ति. अत्र च ग्रन्थे न सेतुबन्धवच्छुद्धं प्राकृतम्, किंतु प्रायो बन्धादिरचितदेशीशब्दमिश्रमेव. अस्य च ग्रन्थस्य द्वे टीके समुपलब्धे. तत्र-एका रविकरविरचिता पिङ्गलसारविकाशिनी अलवरराजकीयपण्डितवरश्रीयुतरामचन्द्र शर्मभिः प्रहिता. तत्र च समाप्तावेवं वंशपरम्परा श्रूयते 'आसीच्छ्रीशूलपाणि वि विविधगुणग्रामविश्रामभूमि स्तत्पुत्रो भूमिदेवाम्बुजवनतरणिमिश्ररत्नाकरोऽभूत् । तस्मादासीमभूमीवलयसुविदितानन्तकीर्तिप्रतानः पुत्रः साक्षात्पुरारिर्गुणगणसहितो दोहविः पण्डितोऽभूत् ॥ चण्डेशस्तस्य पुत्रोऽभवदतिमहितो मिश्रभीमेश्वरोऽभू त्तत्सूनुः सूरिसंसद्गणितगुणगणः सुप्रतिष्ठोऽतिनिष्ठः । जातस्तस्मात्पवित्रो हरिहरसुकविः साधु साधारणं य द्वित्तं नित्योपकाराहितमतिरुचितः श्रीरविस्तत्सुतोऽस्ति ॥' अनेन च रविकरेण वृत्तरत्नावल्यपि रचितेति जर्मन-ओरिएण्टल-सोसाइटीमुद्रापितग्रन्थग्रन्थकारनामसंग्रहपुस्तकतोऽवसीयते. द्वितीया त्वियं लक्ष्मीनाथविरचिता मुद्रितैव. अस्याश्च पुस्तकं जयपुरराजकीयविद्यालयलब्धभिषग्वरपदलच्छीरामसाधुभिर्दत्तम्. इति पुस्तकप्रेषयितॄणां महान्तमुपकारं मन्यामहे इति शम्.Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 256