Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 3
________________ सुधीषु निवेदनम् । इदमश्रुतपूर्व काव्यमाकलूजनिवासि श्रेष्ठिवर्य नाथारङ्गजी गांधी इत्येतैरस्मदधिकृतमुद्रणादिप्रबन्धद्वारा विद्वज्जनतायां प्रकाशमानीतम् । एतन्मुद्रणावसरे बहुतरमन्वेषितेऽपि पुस्तकान्तरानुपलम्भादन्यैश्च कियद्भिः प्रमादजनितैः कारणैरस्य मुद्रणे यत्र तत्रातितरां स्खलितमस्माभिरिति तद्विषयिकां क्षमा प्रार्थयामोऽध्येतृजनकृताम् । पुस्तकान्ते निवेशितेन शुद्धिपत्रेण संशोध्य पुस्तकं पठनीयमिति च निवेदयामो वाचकवृन्दम् । गच्छतः स्खलनं कापि भवत्येव प्रमादता । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ अलं विज्ञानां पुरो निवेदनकरणेन । प्रार्थी-पन्नालाल बाकलीवाल ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 292