________________
सुधीषु निवेदनम् । इदमश्रुतपूर्व काव्यमाकलूजनिवासि श्रेष्ठिवर्य नाथारङ्गजी गांधी इत्येतैरस्मदधिकृतमुद्रणादिप्रबन्धद्वारा विद्वज्जनतायां प्रकाशमानीतम् । एतन्मुद्रणावसरे बहुतरमन्वेषितेऽपि पुस्तकान्तरानुपलम्भादन्यैश्च कियद्भिः प्रमादजनितैः कारणैरस्य मुद्रणे यत्र तत्रातितरां स्खलितमस्माभिरिति तद्विषयिकां क्षमा प्रार्थयामोऽध्येतृजनकृताम् । पुस्तकान्ते निवेशितेन शुद्धिपत्रेण संशोध्य पुस्तकं पठनीयमिति च निवेदयामो वाचकवृन्दम् ।
गच्छतः स्खलनं कापि भवत्येव प्रमादता ।
हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ अलं विज्ञानां पुरो निवेदनकरणेन ।
प्रार्थी-पन्नालाल बाकलीवाल ।