Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
तनकर्णाटभाषायां जग्रथे, प्रश्नोत्तररत्नमालानामकं च लघु काव्यं संस्कृतभाषायां संददर्भ इति मन्यन्ते ऐतिहासिकाः । इदमस्या अन्तिमः श्लोकः
विवेकात्त्यक्तराज्येन राज्ञेयं रत्नमालिका।
रचितामोघवर्षेण सुधिया सदलङ्कतिः॥१॥ अमोघवर्षों महाराट् श्रीजिनसेनस्य चरणारविन्दयोनमस्कारकरणेन पूतीभूतं स्वममन्यत इति, जिनसेनस्य श्रीवीरसेनाचार्यो गुरुरभूदिति च श्रीउत्तरपुराणस्य प्रशस्तेरन्ते लिखितमस्ति ।
अभवदिह हिमाद्रेर्देवसिन्धुप्रवाहो ध्वनिरिव सकलज्ञात्सर्वशास्त्रैकमूर्तिः । उदयगिरितटाद्वा भास्करो भासमानो मुनिरनु जिनसेनो वीरसेनादमुष्मात् ॥ यस्य प्रांशुनखांशुजालविसरद्धारान्तराविर्भवत्पादाम्भोजरजापिशङ्गमकुटप्रत्यग्ररत्नधुतिः। संस्मता स्वममोघवर्षनृपतिः पूतोहमद्येत्यलं
स श्रीमान् जिनसेनपूज्यभगवत्पादो जगन्मङ्गलम् ॥ एकान्नषष्ट्युत्तरे सप्तशततमे शकाब्दे (७५९) निर्मितायां जयधवलटीकायाममोघवर्षस्य गुरुर्जिनसेनोऽमोघवर्षश्चोल्लिखितौ।
इति श्रीवीरसनीया टीका सूत्रार्थदर्शिनी। मटग्रामपुरे श्रीमहुर्जरार्यानुपालिते ॥ फाल्गुने मासि पूर्वाह्ने दशम्यां शुक्लपक्षके। प्रवर्धमानपूजायां नन्दीश्वरमहोत्सवे ॥ अमोघवर्षराजेन्द्रप्राज्यराज्यगुणोदया। निष्ठितप्रचयं यायादाकल्पान्तमनल्पिका ॥ षष्टिरेव सहस्राणि ग्रन्थानां परिमाणतः। श्लोकेनानुष्टुभेनात्र निर्दिष्टान्यनुपूर्वशः॥ विभक्तिः प्रथमस्कन्धो द्वितीयः संक्रमोदयः । उपयोगश्च शेषास्तु तृतीयस्कन्ध इष्यते ॥ एकान्नषष्टिसमधिकसप्तशताब्देषु शकनरेन्द्रस्य । समतीतेषु समाप्ता जयधवला अमृतव्याख्या।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 292