Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 12
________________ पद्मपुराणम् । षट्षष्टितमं पर्व। दुर्वृत्तो नरकः शंखो धवलांगोऽसुरस्तथा । निधानं शंबराद्याश्च संग्रामश्रद्धया गताः ॥ २५ ॥ प्रीतिरेव मया साई भवते नितरां हिता । ननु सिंहो गुहां प्राप्य महाद्रेर्जायते सुखी ॥२६॥ महेन्द्रदमनी येन समरऽमरभीषणः । सुंदरीजनसामान्यं बंदीगृहमुपाहृतः ॥ २७॥ पाताले भूतले व्योम्नि गतिर्यस्येच्छया कृता । सुरासुरैरपि क्रुद्धः प्रतिहतुं न शक्यते ।। २८ ॥ नानानेकमहायुद्धवीरलक्ष्मी स्वयंग्रही । सोऽहं दशाननो जातु भवता किं तु न श्रुतः ॥ २९ ॥ सागरांतां महीमेतां विद्याधरसमन्विताम् । लंकां भागद्वयोपेतां राजन्भेष ददामि ते ॥३०॥ अद्य मे सोदरं प्रेक्ष्य तनयौ च सुमानसः । अनुमन्यस्य सीतां च ततः क्षेमं भविष्यति ॥३१॥ न चेदं करोषि त्वं ततस्ते कुशलं कुतः । एताँश्च समरे बद्धानानेष्यामि बलादहम् ॥ ३२ ॥ पद्मनाभस्ततोऽवोचन्न मे राज्येन कारणम् । न चान्यप्रमदाजेन भोगेन महताsपि हि ॥ ३३ ॥ एषः प्रेष्यामि ते पुत्रौ भ्रातरं च दशानन । संप्राप्य परमां पूजां सीतां प्रेष्यसि मे यदि ॥३४॥ एतया सहितोऽरण्ये मृगसामान्यगोचरे । यथासुखं भ्रमिष्यामि महीं त्वं भुव पुष्कलाम् ३५ गत्वैवं ब्रूहि दूत त्वं तं लंकापरमेश्वरम् । एतदेव हि पथ्यं ते कर्तव्यं नान्यथाविधम् ॥ ३६ ॥ सर्वैः प्रपूजितं श्रुत्वा पद्मनाभस्य तद्वचः । सौष्ठवेन समायुक्तं सामंतो वचनं जगौ ॥ ३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 456