Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 10
________________ पद्मपुराणम् । षट्षष्टितम पर्व। अथ षट्षष्टितमं पर्व । अथ लक्ष्मीधरस्वंतं विशल्याचरितोचितम् । चारेभ्यो रावणः श्रुत्वा जज्ञे विस्मयमत्सरी ॥१॥ जगाद च स्मितं कृत्वा को दोष इति मंदगीः । ततोऽगादि मृगांकाद्यैर्मत्रिभित्रकोविदैः ॥२॥ यथार्थ भाष्यसे देव ! सुपथ्यं कुप्य तुष्य वा । परमार्थो हि निीकैरुपदेशोऽनुजीविभिः ॥३॥ सैंहगारुडविद्ये तु रामलक्ष्मणयोस्त्वया । दृष्टे यत्नाद्विना लब्धे पुण्यकर्मानुभावतः ॥४॥ बंधनं कुंभकर्णस्य दृष्टमात्मजयोस्तथा । शक्तेरनर्थकत्त्वं च दिव्यायाः परमौजसः ॥५॥ संभाव्य संभवं शत्रुस्त्वया जीयेत यद्यपि । तथापि भ्रातृपुत्राणां विनाशस्तव निश्चितः ॥६॥ इति ज्ञात्वा प्रसादं नः कुरु नाथाभियाचितः । अस्मदीयं हितं वाक्यं भग्नं पूर्व न जातुचित् ७ त्यज सीतां भजात्मीयां धर्मबुद्धिं पुरातनीम् । कुशली जायतां लोकः सकलः पालितस्त्वया ८ राघवेण समं संधिं कुरु सुंदरभाषितम् । एवं कृते न दोषोऽस्ति दृश्यते तु महागुणः ॥९॥ भवता परिपाल्यंते मयोदाः सर्वविष्टपे । धर्माणां प्रभवस्त्वं हि रत्नानामिव सागरः॥१०॥ इत्युक्त्वा प्रणता वृद्धाः शिरःस्थकरकुड्मलाः । उत्थाप्य संभ्रामाच्चैतांस्तथेत्यूचे दशाननः ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 456