________________
पद्मपुराणम् ।
षट्षष्टितम पर्व।
अथ षट्षष्टितमं पर्व । अथ लक्ष्मीधरस्वंतं विशल्याचरितोचितम् । चारेभ्यो रावणः श्रुत्वा जज्ञे विस्मयमत्सरी ॥१॥ जगाद च स्मितं कृत्वा को दोष इति मंदगीः । ततोऽगादि मृगांकाद्यैर्मत्रिभित्रकोविदैः ॥२॥ यथार्थ भाष्यसे देव ! सुपथ्यं कुप्य तुष्य वा । परमार्थो हि निीकैरुपदेशोऽनुजीविभिः ॥३॥ सैंहगारुडविद्ये तु रामलक्ष्मणयोस्त्वया । दृष्टे यत्नाद्विना लब्धे पुण्यकर्मानुभावतः ॥४॥ बंधनं कुंभकर्णस्य दृष्टमात्मजयोस्तथा । शक्तेरनर्थकत्त्वं च दिव्यायाः परमौजसः ॥५॥ संभाव्य संभवं शत्रुस्त्वया जीयेत यद्यपि । तथापि भ्रातृपुत्राणां विनाशस्तव निश्चितः ॥६॥ इति ज्ञात्वा प्रसादं नः कुरु नाथाभियाचितः । अस्मदीयं हितं वाक्यं भग्नं पूर्व न जातुचित् ७ त्यज सीतां भजात्मीयां धर्मबुद्धिं पुरातनीम् । कुशली जायतां लोकः सकलः पालितस्त्वया ८ राघवेण समं संधिं कुरु सुंदरभाषितम् । एवं कृते न दोषोऽस्ति दृश्यते तु महागुणः ॥९॥ भवता परिपाल्यंते मयोदाः सर्वविष्टपे । धर्माणां प्रभवस्त्वं हि रत्नानामिव सागरः॥१०॥ इत्युक्त्वा प्रणता वृद्धाः शिरःस्थकरकुड्मलाः । उत्थाप्य संभ्रामाच्चैतांस्तथेत्यूचे दशाननः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org