________________
पद्मपुराणम् ।
षट्षष्टितम पर्व । मंत्रविद्भिस्ततस्तुष्टैः संदिष्टोऽत्यंतशोभनः । द्रुतं गमीकृतो दूतः सामंतो नयकोविदः॥१२॥ तं निमेषेगिताकूतपरिवोधविचक्षणम् । रावणः संज्ञया स्वस्मै रुचितं द्रागनिग्रहत् ।। १३ ॥ दूतस्य मंत्रिसंदिष्टं नितांतमपि सुन्दरम् । महौषधं विषेणेव रावणार्थेन दूषितम् ॥ १४ ॥ अथ शुक्रसमो बुद्धया महौजस्कः प्रतापवान् । कृतवाक्यो नृपैर्भूयः श्रुतिपेशलभाषणः ॥१५॥ प्रणम्य स्वामिनं तुष्टः सामंतो गंतुमुद्यतः । बुद्धयावष्टंभतः पश्यन् लोकं गोष्पदसंमितम् ॥१६॥ गच्छतोऽस्य बलं भीमं नानाशस्त्रसमुज्ज्वलम् । बुद्धयेव निर्मितं तस्य बभूव भयवर्जितम् ॥१७॥ तस्य तूर्यरवं श्रुत्वा क्षुब्धा वानरसैनिकाः । खमीक्षांचक्रिरे भीता रावणागमकिनः ॥१८॥ तस्मिन्नासन्नतां प्राप्ते पुरुषांतरवेदिते । विश्रब्धतां पुनर्भेजे बलं प्लवगलक्षणम् ॥ १९ ॥ दूतः प्राप्तो विदेहाजः प्रतीहारनिवेदितः । आप्तः कतिपयैः साकं वाद्यावासितसैनिकः ॥२०॥ दृष्ट्वा पद्मं प्रणम्यासौ कृतदूतोचितक्रियः । जगौ क्षणमिव स्थित्वा वचनं क्रमसंगतम् ॥ २१ ॥ पद्म ! मद्वचनैः स्वामी भवन्तमिति भाषते । श्रोत्रावधानदानेन प्रयत्नः क्रियतां क्षणम् ॥२२॥ यथा किल न युद्धेन किंचिदत्र प्रयोजनम् । बहवो हि क्षयं प्राप्ता नरा युद्धाभिमानिनः ॥२३॥ प्रीत्यैव शोभना सिद्धियुद्धतस्तु जनक्षयः । असिद्धिश्च महान् दोषः सापवादाच सिद्धयः ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org