________________
पद्मपुराणम् ।
षट्षष्टितमं पर्व। दुर्वृत्तो नरकः शंखो धवलांगोऽसुरस्तथा । निधानं शंबराद्याश्च संग्रामश्रद्धया गताः ॥ २५ ॥ प्रीतिरेव मया साई भवते नितरां हिता । ननु सिंहो गुहां प्राप्य महाद्रेर्जायते सुखी ॥२६॥ महेन्द्रदमनी येन समरऽमरभीषणः । सुंदरीजनसामान्यं बंदीगृहमुपाहृतः ॥ २७॥ पाताले भूतले व्योम्नि गतिर्यस्येच्छया कृता । सुरासुरैरपि क्रुद्धः प्रतिहतुं न शक्यते ।। २८ ॥ नानानेकमहायुद्धवीरलक्ष्मी स्वयंग्रही । सोऽहं दशाननो जातु भवता किं तु न श्रुतः ॥ २९ ॥ सागरांतां महीमेतां विद्याधरसमन्विताम् । लंकां भागद्वयोपेतां राजन्भेष ददामि ते ॥३०॥ अद्य मे सोदरं प्रेक्ष्य तनयौ च सुमानसः । अनुमन्यस्य सीतां च ततः क्षेमं भविष्यति ॥३१॥ न चेदं करोषि त्वं ततस्ते कुशलं कुतः । एताँश्च समरे बद्धानानेष्यामि बलादहम् ॥ ३२ ॥ पद्मनाभस्ततोऽवोचन्न मे राज्येन कारणम् । न चान्यप्रमदाजेन भोगेन महताsपि हि ॥ ३३ ॥ एषः प्रेष्यामि ते पुत्रौ भ्रातरं च दशानन । संप्राप्य परमां पूजां सीतां प्रेष्यसि मे यदि ॥३४॥ एतया सहितोऽरण्ये मृगसामान्यगोचरे । यथासुखं भ्रमिष्यामि महीं त्वं भुव पुष्कलाम् ३५ गत्वैवं ब्रूहि दूत त्वं तं लंकापरमेश्वरम् । एतदेव हि पथ्यं ते कर्तव्यं नान्यथाविधम् ॥ ३६ ॥ सर्वैः प्रपूजितं श्रुत्वा पद्मनाभस्य तद्वचः । सौष्ठवेन समायुक्तं सामंतो वचनं जगौ ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org