Book Title: Padmacharitam Part 02
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 11
________________ पद्मपुराणम् । षडविंशतितमं पर्व। कन्यया मुदितश्चौरः पिंगलो धनवर्जितः । न विभाति यथा लोभी तृष्णया धर्मवर्जितः ॥१२॥ विदग्धनगरं चापदुर्गमं परराष्ट्रिणां । वहिः कृत्वा कुटी तत्र तस्थौ निस्वकपाटकः ॥ १३ ॥ ज्ञानविज्ञानरहितस्तृणकाष्ठादिविक्रयात् । अनुरक्षति तां पत्नी मनो दारिद्रयसागरे ॥ १४ ॥ पुत्रः प्रकाशसिंहस्य परराष्ट्रभयंकरः । जातोत्र प्रवरावल्यां राजा कुंडलमंडितः ॥ १५ ॥ तेन दृष्टान्यदा बाला निर्यातेन कथंचन । हतश्च पंचभिर्वाणैर्मारस्याभूत्सुदुःखितः ॥ १६ ॥ प्रच्छन्नं प्रेषिता दूती तया रात्रौ नृपालयं । यथासीत्कमलामेला सुमुखस्य प्रवेशिता ॥ १७ ॥ तया सह सुखं रेमे प्रीतः कुंडलमंडितः । उर्वश्या सह संरक्तो यथासीन्नलकूवरः ॥ १८ ॥ ततः स पिंगलाख्योऽपि श्रांतः स्वगृहमागमत् । तामपश्यद्विशालाक्षी मन्नो वैधुर्यसागरे ॥१९॥ विस्तीर्णेन किमुक्तेन सोयं विरहदुःखितः । न कचिल्लभते सौख्यं चक्रारुद इवाकुलः ॥२०॥ हृतभार्यो द्विजो दीनस्तं राजानमुपागमत् । ऊचे चान्विष्य मे राजन् पत्नी केनापि चोरिता २१ भीषितानां दरिद्राणामार्तानां च विशेषतः । नारीणां पुरुषाणां च सर्वेषां शरणं नृपः ॥२२॥ अमात्यं धृतमाहूय समायं पार्थिवोऽब्रवीत् । चिराय मा कृथा माम जायाऽस्यान्विष्यतामिति २३ जगादेति च तत्रैकः सविकारेण चक्षुषा । सा दृष्टा पथिकैर्देव पौदनस्थानवत्मनि ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 446