Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 11
________________ ( २ ) न च सुखतत्संवेदनयोरुभयोरपि नित्यत्वान् मुक्तिसंसारयोरविशेष इति वाच्यम्, सुखतत्संवेदनयोः संसारावस्थायां विषयविषयिभावसम्बन्धप्रत्यनीकदुःखसद्भावान् न सुखसंवेदनम्; मुक्तौ तु भवति तत्संवेदनम् । न च सम्बन्धस्य जन्यत्वान् नाशः शङ्कनीयो ध्वंसवन्नित्यत्वात् । न च सादिभावस्य कथं नित्यता ? तादृशसम्बन्धस्य द्रव्यादिष्वनन्तर्भावाद् भावत्वासिद्धेः । कृतस्यापि विनाशकारणाभावान्नित्यत्वमेवेति ।। मोक्षस्तत्त्वज्ञानेन कर्मदाहात्साक्षादेव भवति "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन' इति गीता, तथा "क्षीयन्ते चास्य कर्माणि तस्मिन 'दष्टे परावरे'' इति श्रुतिश्च न यथाश्रुतार्थिन्यौ इति मञ्जरीकारः । यदाह, विना फलोपभोगेन नहि नाशोऽस्ति कर्मणाम् । तेषां ज्ञानाग्निना दाह इति श्रद्धाविजृम्भितम् ॥ कार्यकारणभावो हि शास्त्रादेवावगम्यते । कर्मणाञ्च फलानाञ्च स कथं विनिवर्तताम् ॥ इति । तदिदं निराकरोति, न तावद् ऋणप्रतिबन्धः, जायमानस्य तत्काले ऋणादानाभावाद् औपचारिकमिदं अवश्यकर्त्तव्यतासूचकोऽर्थवाद इत्याह । ज्ञानात्कर्मदाहवचनं भागवतमेवं व्याख्येयम् । न कर्मणां ज्ञानेन स्वरूपदाहः, अपि तु भृष्टानामिव बीजानां अङ्करकरणकौशलहानिः । कर्माणि मिथ्याज्ञानेन दोषैश्च सहितानि फलं जनयन्ति । तत्त्वज्ञानेन मिथ्याज्ञाने नष्टे, तेन च रागद्वेषमोहाभावे न शरीरमारभत इत्यर्थः । तदुक्तम्, अविद्यातृष्णे धर्माधर्मी च जन्मकारणमिति । शरीरव्यतिरिक्तात्मज्ञानस्योपयोगः षोडशपदार्थनिरूपणस्य किं प्रयोजनमित्याकाङ्क्षायामक्षपादसूत्रं षोडशपदार्थज्ञानान्निःश्रेयसाधिगम इति । अत्र निःश्रेयसं मोक्षः, तस्य पदार्थज्ञानात् कथं प्राप्तिरित्यनुयोगे सूत्रं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपंवर्ग इति । तत्त्वज्ञानञ्च आत्मनः शरीरादिभिन्नत्वेन ज्ञानं तेन शरीरमेवात्मेति ज्ञाननाशस्तेन रागादिनाशपरम्परया जन्मनाशरूपोऽपवर्ग इत्युक्तं भवति ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 240