Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 8
________________ भूमिका । स्य भर्तृहरेः ३७० ई० वर्षादारभ्य ४४० ई० वर्षपर्यन्तं सत्ता सम्भाव्यते । युक्तं चैतत् यत इचिङ्गाख्यश्चीनयात्री स्वकीयभारत भ्रमणपुस्तके स्वागमनसमयात् पञ्चाशद्वर्षेभ्यः पूर्वमेव भर्तृहरेर्निर्वाणं लिखति तदीयागमनसमयश्च सुप्रसिद्ध एवाङ्लभाषाविदाम् । वसुबन्धुप्रणीतस्य अभिधर्मकोशस्य व्याख्या दिङ्नागेन कृतेति ततो न्यूनान्न्यूनः शतवर्षादन्यूनः समयोऽपेक्ष्यत इति ४६० ई० वर्षासन्नः समयो दिङ्नागस्य भवितुमर्हति । धर्मकीर्तिसमयात्प्राक् दिङ्नागसमयादनन्तरं न्यायवार्तिक कर्तुरुद्योतकर - चार्यस्य स्थितिः सम्भाव्यते यतः प्रत्यक्षलक्षणप्रस्तावे वसुबन्धोर्दिङ्नागस्य च लक्षणे दूषयन्नुद्योतकराचार्यो धर्मकीर्तिलक्षणं न स्पृशतीति ४९० ई० वर्षादारभ्य ५६० ई० वर्षपर्यन्तमुद्योतकराचार्यस्य स्थितिः सम्भाव्यते । कल्पनापोढत्वं प्रत्यक्षलक्षणं दिङ्नागेनाङ्गीकृतम् तम्मिँश्चोद्योतकरेण दूषिते [अभ्रान्तत्वघटितं प्रत्यक्षलक्षणं धर्मकीर्तिना स्वीकृतम् । अत्र मानं तु 'दिङ्नागस्यैव कल्पनापोढमात्रं लक्षणमपि तु तदेवाभ्रान्तत्वसहितं प्रत्यक्षलक्षणं मन्यते हम कीर्तिः प्रत्यक्षं कल्पनापोढमभ्रान्तमिति' । इति न्यायकणिका ( लाजरसमुद्रित १९२ पृ.) इति सुनिपुणबुद्धिर्लक्षणं वक्तुकामः पदयुगलमपीदं निर्ममे नानवद्यम् । भवतु मतिमहिम्नश्चेष्टितं दृष्टमेतत् जगदभिभवधीरं धीमतो धर्मकीर्तेः ॥ इति प्रत्यक्षलक्षणस्था न्यायमञ्जरी (पृ. ९३ ) च । वासदत्तायां 'न्यायस्थितिमिवोद्योतकरस्वरूपाम्' इति दर्शनात् इत: १२०० वर्षेभ्यः पूर्व वासवदत्ताकर्तुः स्थित्या तत्पूर्वभाविनः उद्योतकरस्य पूर्वोक्तः समयः सुदृढ एव । उद्योतकराचार्यात् परम् ५९० ई० वर्षादारभ्य ६५० ई० वर्षपर्यन्तं धर्मकीर्तेः स्थितिः सम्भाव्यते धर्मकीर्तेरन्तिमे वयसि कुमारिलभट्टपादा अभूवन् इतिजनश्रुतिः ततश्च ६२५ ई० वर्षादारभ्य ६९० ई० वर्षपर्यन्तमेषां स्थितिसमयः । अयमेव च वाणभट्टस्यापि समय: । यद्यप्यनेन

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 656