Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 13
________________ भूमिका। १० दशमाहिके-संशय-प्रयोजन-दृष्टान्त-सिद्धान्ता-वयवप्रकरणानि समापितानि। ११ एकादशाहिके-तर्क-निर्णय वाद-जल्प-वितण्डा-हेत्वाभासच्छल. प्रकरणानि समापितानि। १२ द्वादशाह्निके-जातिनिग्रहस्थानप्रकरणे समापिते । न्यायमञ्जरीस्वरूपरिचय:इत्येवं साकल्येन गौतमशास्त्रसिद्धान्तप्रतिपादकोऽयं प्रबन्धः नृत्यत्पदाभिः सूक्तिभिर्भरितोऽसकृत्सहृदयानां चेतोऽमन्दानन्दसंदोहे निमज्जयत्येव । प्राधान्येन बौद्धादिमतखण्डनाय प्रवृत्तोऽपि कुमारिलभट्टवाक्यपदीयकारादिभिः प्रतिपादितेऽपि नैयायिकसिद्धान्तविरुद्धे विषये मौनं नाश्रयति । विरोधिमतखण्ड प्रसङ्गेन दुर्वचोभिः परं संबोधयन्नपि स्वसिद्धान्तानुरागं प्रथयन्ना. तीव सहृदयान् दुनोतीत्यपि नाविदितमेतद्ग्रन्थप्रणयिनां सन्त्येवंविधाः श्रीशङ्कराचार्यप्रभृतोनां निबन्धेष्वपि दुरुक्तयः । परन्तु न तादुरुक्तय इतिव्य पदिश्यन्ते । ग्रन्थकर्तुनिरर्गलप.ण्डित्यवशादस्मिन्प्रन्थे कश्चित्सम्बद्धोऽप्र. कृतोऽपि विषयोऽभिहितः। लेखोस्य सरल: सरसश्चेति पण्डिता एव . प्रमाणम्। प्रकाशनप्रयोजनम्भूतपूर्ववाराणसेयराजकोयमहाविद्यालयप्रधानाध्यापकमहामहोपाध्याय मानवल्ल्युपाख्य गङ्गाधरशास्त्रिभिःवाराणसेयराजकीयसरस्वतीभवनस्थितस्य १७९४ वर्षलिखितस्य पुस्तकस्याधारेण संशोध्य विजयनगरसंस्कृसिरीजनामकग्रन्थमालायां प्रकाशितः सांप्रतमनुपलभ्यमानः संस्कृतप्रणयिनां तदनुप. लम्भप्रयुक्तखेदमपाकारिष्णुना चौखम्बासंस्कृतपुस्तकालयाध्यक्षेण बाबू श्री जयकृष्णदासश्रेष्ठिमहाभागेन प्रार्थितोऽहं विषमस्थलटिप्पणीं तत्तत्स्थले स्थूलाक्षरैर्विषयनिर्देशं च विधाय संपादितवानस्मीति सम्भावये यदनेन संस्करणेन स्याभ्रेत् कश्चिद्विदुषामुपकारस्तदात्मानं कृतकृत्यं मन्ये इति शम् । १९९३ वै० वैशाख शु० १ प्रतिपदि, ।। । सूर्यनारायणशर्मशुक्लः । .. काशी,

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 656