________________
भूमिका। १० दशमाहिके-संशय-प्रयोजन-दृष्टान्त-सिद्धान्ता-वयवप्रकरणानि समापितानि।
११ एकादशाहिके-तर्क-निर्णय वाद-जल्प-वितण्डा-हेत्वाभासच्छल. प्रकरणानि समापितानि। १२ द्वादशाह्निके-जातिनिग्रहस्थानप्रकरणे समापिते ।
न्यायमञ्जरीस्वरूपरिचय:इत्येवं साकल्येन गौतमशास्त्रसिद्धान्तप्रतिपादकोऽयं प्रबन्धः नृत्यत्पदाभिः सूक्तिभिर्भरितोऽसकृत्सहृदयानां चेतोऽमन्दानन्दसंदोहे निमज्जयत्येव । प्राधान्येन बौद्धादिमतखण्डनाय प्रवृत्तोऽपि कुमारिलभट्टवाक्यपदीयकारादिभिः प्रतिपादितेऽपि नैयायिकसिद्धान्तविरुद्धे विषये मौनं नाश्रयति । विरोधिमतखण्ड प्रसङ्गेन दुर्वचोभिः परं संबोधयन्नपि स्वसिद्धान्तानुरागं प्रथयन्ना. तीव सहृदयान् दुनोतीत्यपि नाविदितमेतद्ग्रन्थप्रणयिनां सन्त्येवंविधाः श्रीशङ्कराचार्यप्रभृतोनां निबन्धेष्वपि दुरुक्तयः । परन्तु न तादुरुक्तय इतिव्य पदिश्यन्ते । ग्रन्थकर्तुनिरर्गलप.ण्डित्यवशादस्मिन्प्रन्थे कश्चित्सम्बद्धोऽप्र. कृतोऽपि विषयोऽभिहितः। लेखोस्य सरल: सरसश्चेति पण्डिता एव . प्रमाणम्।
प्रकाशनप्रयोजनम्भूतपूर्ववाराणसेयराजकोयमहाविद्यालयप्रधानाध्यापकमहामहोपाध्याय मानवल्ल्युपाख्य गङ्गाधरशास्त्रिभिःवाराणसेयराजकीयसरस्वतीभवनस्थितस्य १७९४ वर्षलिखितस्य पुस्तकस्याधारेण संशोध्य विजयनगरसंस्कृसिरीजनामकग्रन्थमालायां प्रकाशितः सांप्रतमनुपलभ्यमानः संस्कृतप्रणयिनां तदनुप. लम्भप्रयुक्तखेदमपाकारिष्णुना चौखम्बासंस्कृतपुस्तकालयाध्यक्षेण बाबू श्री जयकृष्णदासश्रेष्ठिमहाभागेन प्रार्थितोऽहं विषमस्थलटिप्पणीं तत्तत्स्थले स्थूलाक्षरैर्विषयनिर्देशं च विधाय संपादितवानस्मीति सम्भावये यदनेन संस्करणेन स्याभ्रेत् कश्चिद्विदुषामुपकारस्तदात्मानं कृतकृत्यं मन्ये इति शम् । १९९३ वै० वैशाख शु० १ प्रतिपदि, ।।
। सूर्यनारायणशर्मशुक्लः ।
.. काशी,