Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
भूमिका। प्रमाणचतुष्ट्वं व्यवस्थापितम् ।
२ द्वितीयाहिके-गौतमोक्तानि प्रत्यक्षानुमानोपमानलक्षणसूत्राणि व्याख्याय तत्प्रसङ्गेनापतितानि बौद्धादिमतानि दूषितानि।
२ तृतीयाह्रिके --शब्दप्रमाणलक्षणं तस्यानुमानान्तर्भावाक्षेपरिहारौ शब्द. प्रमाण्यसमर्थनं प्रामाण्यस्य परतस्त्वमुपापाद्य प्रामाण्यनिश्वायकप्रसङ्गनाख्या. त्यात्मख्यातिवादौ निराकृत्य विपरीतख्यातिसमर्थनं शब्दे परतः प्रामाण्यस. मर्थनेनेश्वरसमर्थनं तदीयज्ञानादेनित्यत्वसाधनं शब्दनित्यत्वनिराकरणं प्रामाण्यस्य गुणजन्यत्वव्यवस्थापनं च कृतम् ।
४ चतुर्थाह्निके–वेदानां पौरुषेयत्वं प्रसाध्य अपौरुषेयत्वस्य निराकरण तेषामीश्वरकर्तृकत्वं शब्दार्थसंबन्धनिरूपणं वेदप्रामाण्यनिरूपणम् अथर्व वेदस्य प्रामाण्यं वेदेषु प्राथम्यं च निरूप्य स्मृतिप्रामाण्यसाधनमागमादि प्रामाण्यव्यवस्था अकार्येऽपि पदानां संगतिग्रहसमर्थनं च कृतम् । ।
५ पञ्चमाह्निके-पदार्थनिरूपणप्रसङ्गेन जातिनिरूपणप्रसङ्गेनापोहवाद. निराकरणं जात्याश्रयनिरूपणं भावनास्वरूपनिरूपणं च कृतम् ।
६ षष्ठाहिके-पदस्वरूपनिरूपणप्रसङ्गेन स्फोटवादनिराकरणं पदार्थानां वाक्यार्थधीहेतुत्वनिराकरणं पदानामेव तत्त्वव्यवस्थापनमभिहितान्वयवादा. न्विताभिधानवादस्वरूपोपपत्तितत्प्रतिक्षेपौ वेदार्थावगमोपायाक्षेपप्रसङ्गेन साध्वसाधुशब्दावगमोपायकरणतया व्याकरणेऽनुपपत्तिपरिहारौच कृतौ। एवं षड्भिराह्निकैः प्रमाणप्रकरणं समापितम्। __ ७ सप्तमाह्निके-प्रमेयपदार्थनिरूपणप्रसङ्गेन आत्मनास्तित्वनिरासेन तस्य देहातिरिक्तत्वसमर्थनं क्षणिकविज्ञानवादिनां सांख्यानां क्षणभङ्गवा. दिनां च निराकरणेन आत्मतत्वप्रतिपादनं कृतम् । ____८ अष्टमाह्निके शरीरे-द्रिया-र्थ-बुद्धि-प्रवृत्तिदोष-प्रेत्यभाव-फल-दुःख रूपाणां दशानां प्रमेयाणां निरूपणम् इन्द्रियाणां प्राप्यकारित्वं बुद्धरात्म गुणत्वम् , ज्ञानायौगपद्यं च निरूपितम् ।
९ नवमाहिके-अपवर्गस्वरूपनिरूपणम् , तत्प्रसङ्गेनाद्वैतमतखण्डनम् , पराभिमतमोक्षस्वरूपनिराकरणं तस्य दुःखाभावताव्यवस्थापनम् । इत्येवमाहिकत्रयेण प्रमेयप्रकरणं समापितम् ।
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 656