Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३१२
न्याraarit |
नियमान्तम्रियमप्रच्यवात् कथाप्रसङ्ग इति तथा च कथायां स्वीकृत सिद्धान्तप्रच्यवोऽपसिङ्घान्तः- तथा च माझ्यामतेनाहं वदिष्यामीत्यभ्युपेत्यारब्वाय कथायाम् व्याविर्भावस्थाविर्भावाभ्युपगमेऽनवस्थेति दूषणोद्वारायाविर्भा बस्यासतः उत्पत्तिं यद्यभ्युपैति तदाऽपसिद्धान्तः यस्व कदेशिमतेन कथा - मारभते तस्य शास्त्रकाराभ्युपगमविरोधे नापसिद्धान्त इति विबोधयितुमभ्युपेत्येत्य ुक्तं सौगतास्त्वपसिद्धान्तं दूषणं न मन्यत इत्यन्यदेतत् ॥ ६६ ॥
क्रमप्राप्त हेत्वाभासलक्षणे वक्तव्ये तदकथनवीजमाह । च पुनरर्थे हेत्वाभासाः पुनर्यथा येन रूपेण पूर्वमुक्ताः तेनैव रूपेण तेषां निग्रहस्थानत्वमिति न लचणान्तरमपेक्षितमिति चात्र चकारस्य दृष्टान्ते साधनवैकल्यादिसमुच्चायकत्वमिति केचित् तन्न यथोक्ता इत्यस्यानन्वयापत्ते
रिति ॥ ६७ ॥
समाप्त' निग्रहस्थानविशेषलच्तणम् । समाप्तं पञ्चमस्य द्वितीयाह्निकम् ।
एषा मुनिप्रवरगोतम सूत्रवृत्तिः श्रीविश्वनाथकृतिना सुगमा ल्पवर्षा | श्रीकृष्णचन्द्रचरणाम्बुज पञ्चरीकश्री मच्छिरोमणिवचः प्रचयैरकारि ||
इति श्रीमहामहोपाध्याय श्रीविद्यानिवासभट्टाचार्यात्मज श्रीविवनाथभट्टाचार्यकृतायां न्यायसूत्रवृत्तौ पञ्चमोऽध्यायः समाप्तः ॥
For Private And Personal

Page Navigation
1 ... 325 326 327 328 329 330