Book Title: Nana Chandomaya Shree Neminath Stavan
Author(s): Vimalkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ 28 अनुसंधान-२३ स्वामिन् ! मूर्तिर्जलधरमालावत्ते, कामं श्यामा रचयति तपो(वो)पास्तिम् । आतन्वाना सुकृतलताविस्तारं, तच्चित्रं यज्जनयति हंसानन्दम् ॥३०॥ (जलधरमाला) स्थाने तन्मत्यै यदि दोषाकर: स्यान्मिथ्याबुद्धिं श्राग् वैश्वदेवीमवाप्य । तच्चित्रं मैत्रीमाप्य भास्वानपि त्वं, जन्तूनां धत्से नाथ ! यत्सिद्धियोगम् ॥३१॥ (वैश्वदेवी) जलोद्धगतिः कृताऽघविततिस्त्वदुक्तविरतिः कुसंगतिरतिः । प्रनष्टसुमतिजिनेश ! कुमतिर्जन: शिवगतिश्रियं न भजति ॥३२॥ (जलोद्धतगति) लभते स्तुवन् केकिरवं जयद्भिर्दुरितपुटविभेदिन् मञ्जुशब्दैः । तव पदतामरसं भुवि भव्यः, कुसुमविचित्रावलिभिरिहाऽर्चाम् ।।३३।। (तामरस) सत्कीर्तिकान्तिललितास्तपूर्णिमा चन्द्रवर्मसुगतेर्भुवि भविनाम् । विशति नाथ ! तव गी: प्रियम्वदा, स्वरविनिर्जितलसत्कलहंसा ॥३४॥ (प्रियम्वदा) भगवन् ! गुणमालभारिणीनां, निजमाधुर्यपराजितामृतानाम् । द्रुतविद्रुतवैरसंशयानां, न गिरा ते श्रवणं वितन्वते के ॥३५।। (मालभारिणी) अत्यन्तं मधुरिमकान्तिसौकुमार्योदायॊजोद्भुतसमताप्रसत्तिवन्ति । काव्यानि श्रवणवदीश ! ते निपीयाङ्गानि श्रान्मम नयने प्रहर्षिणी स्तम् ।।३६|| (प्रहर्षिणी) मूर्च्छत्पाथोवाहमहागर्जितनादैनित्यं नृत्यन्मञ्जुरवन्मत्तमयूरम् ।। शैलं कीर्तिस्ते विकसत्केतकराजीवातिस्फीता रैवतकं वासयतीश ! ॥३७॥ (मत्तमयूर) मदनं विजेतुं किमिमं महाकरं, गिरिकुञ्जरं गैरिगनागजाञ्चितम् । श्रितवान् सुदन्तं गुरुपादसुंदरं, त्वामिनश्रवन्निर्झरदानसंवरम् ॥३८॥ (सुदन्त) नृपकन्यकाऽक्षिहदयाभिनन्दिनी, सपदि त्वयौज्झि मृदुम भाषिणी । निजरूपनिर्जितसुराङ्गनाऽपि सा, जिन ! नित्यनिवृतिसुखाभिलाषिणा पर९॥ (मञ्जुभाषिणी) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6