Book Title: Nana Chandomaya Shree Neminath Stavan
Author(s): Vimalkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ 26 अनुसंधान-२३ गन्धर्वैस्तव सुस्त(स्व)रैर्यशोगीतं पीतमवीतसुस्पृहैः । स्वामिन्निजितशीतरुक्सुधा, गङ्गाशुद्धविराट् सुराधिपैः ॥१०॥ (शुद्धविराट्) मात्राणामिव तन्वता त्वयाऽष्टादशकं ब्रह्मभिदां पदे पदेऽर्हन् । औपच्छन्दसकापरान्तिकावद्, यतिगणवृत्तविदाऽऽरचि व्रतश्रीः ॥११॥ (औपच्छन्दसकापरान्तिका) चूर्णीभवन्त्यङ्गभृतामघौघाः काठिन्यवन्तोऽपि तव स्तवेन । स्वामित्रतामय॑नरेन्द्रवज्राघातेन शैला इव निर्विलम्बम् ॥१२॥ (इन्द्रवज्रा) उपेन्द्रवज्रायुधपन्नगेन्द्रैरुपासितस्त्वं स्मितकैरवाक्षैः । सदास्यशीतद्युतिचन्द्रिकाम्भः पिपासुभिर्नाथ ! निरन्तरायम् ॥१३॥ (उपेन्द्रवज्रा) आख्यानि कीदृग् निजदुःखजातं, तवाऽग्रतोऽहं व्यथका यदेते । मुञ्चन्ति नाऽद्योप्युपजातिभृङ्गाः, इव प्रभो ! मां मलिना अधौघाः ॥१४॥ (उपजाति) दोधकमुख्यसुवृत्तनिबद्धै रासशतै रसवद्भिरधीश ! । निर्जरनागनभश्चरनार्यः कुत्र जगुर्न भवत्सुभगत्वम् ॥१५॥ (दोधक) स्वःस्त्रीकुलमुज्ज्वलनाट्यरसात् साक्षिभ्रमिसन्मुखमोटनकम् । नानाकरणोद्भटमपाहरच्चित्तं(?) न तवेश ! रतीशजितः ॥१६।। (मोटनक) कामं स्वामिस्त्वदमलचलनाम्भोजस्फूर्जभ्रमरविलसिताः । माः प्रापुः प्रमुदितमनसः, कल्याणश्रीरसमसमतरम् ।।१७।! (भ्रमरविलसित) पादाम्भोज पुण्यसौरभ्यलोभासङ्गिस्वर्गश्रेणिभृङ्गावलीकम् । सद्भावाम्भः शालिनीश ! त्वदीयं, वासं शश्वन्मानसे मे वितन्यात् ॥१८॥ (शालिनी) नाथ ! विष्टपकृपाऽपरान्तिका यात विश्वमहिता पदद्वयी । पूरिताखिलमनोरथोद्धतानन्ततापशमनाय मेऽस्तु ते ॥१९॥ (अपरान्तिका - रथोद्धता) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6