Book Title: Mrutyu Mahotsav
Author(s): Dhyansagar Muni
Publisher: Prakash C Shah
View full book text
________________
कलाकार एकल कलाकृष्ण मृत्यु महोत्सव कलाकारायाला कारणका
संन्यास एषोऽस्तु किमात्मघातः
-आचार्यश्री ज्ञानसागर मुनिराज किलात्मघातः क्रियते तु देह-भ्रताऽपमानाद्यनुभूय चेह ।
संन्यस्यते शान्तिमताऽऽत्मनाऽतः संन्यास एषोऽस्तु किमात्मघातः ॥१॥ के नाशोन्मुखं नाम शरीरमेतन्निक्षिप्यते तादृगुपक्रमेत् ।।
हृषीकनिःस्वान्तनियन्त्रणातः संन्यास एषोऽस्तु किमात्मघातः ॥२॥ किन्त्वात्मनोग्लानिवशेन घातस्तनोः सुचारोः क्रियते वतातः । उद्विज्यसञ्जीवनतोऽयिमातः संन्यास एषोऽस्तु किमात्मघातः॥३॥ विषादिनाऽङ्गक्षतिषाअघन्यः स आत्मघाती पुनरेति धन्यः । देहे विरुद्धेऽमुमुदारतातः संन्यास एषोऽस्तु किमात्मघातः ॥४॥ संन्यासिनारत्नकरण्डकस्येवाङ्गस्य रक्षा क्रियते स्ववश्ये । नोचेत्तु रत्नान्यभिरक्षतातः संन्यास एषोऽस्तु किमात्मघातः ॥५॥ । शाकाशनीशाकविधाऽपलापे प्रवर्तते किन्नुपलेऽपि पापे?
नियेत धैर्येण न निम्नतातः संन्यास एषोऽस्तु किमात्मघातः ॥६॥ । स्वसंविदः संवहनं विधानेऽपिश्लाघ्यतामेति किलानुजाने । म यो गीयते योगिषु संहितातः संन्यास एषोऽस्तु किमात्मघातः ॥७॥
यत्रात्महन्त्रे घृणया धिगस्तु, संन्यासिने किन्तु नमोऽङ्गिनस्तु । - सर्वत्र नित्यं मृदुभावनातः, संन्यास एषोऽस्तु किमात्मघातः ॥८॥

Page Navigation
1 ... 65 66 67 68