Book Title: Kalpsutravrutti Subodhikabhidhana
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
0000
कल्प.
स
॥११॥
000000000000000000000000000000000000000000000000000
चरिते संस्कारमावल्यं, शीलसन्नायुतता, प्रतिबोधशक्तिश्चाप्रतिहता । वर्ण्यमाने श्रीस्थूलभद्रे भगवति ब्रह्मचर्यसंकल्पदाढयमागमानुसारिगुरोर्महिमाऽव्याबाधा चतुर्मासीस्थितिः, संसर्गेपि योषितोऽस्खलिता शीलसंपत्तिः, प्रतिबोधशत्तया मार्गावतारस्तस्यास्तया च रथकारस्य, प्रतिपातः सिंहगुहाश्रयिणो दर्शनमात्राल्केशपरंपरासहनं व्रतस्थितिश्च । श्रीमति वज्रस्मामिनि तु प्राग्भवस्मृतिर्वाल्यपि वैराग्यं, मातुरुदेगाय रोदनं, सभायां वादो, रजोहरणग्रहणायान्यानादरः, पदानुसारिता, तीर्थप्रभावना, संघवात्सल्यमुपयोगकुशाग्रता च । आचार्ये आर्यसमिते योगचूर्णप्रभावः, प्रियग्रन्थे च मन्त्रचमत्कार इति । ततो वाच्ये तृतीये पर्युषणाकरणसमाचारी पश्चाशतैव दिनैरिति निर्णयस्तत्र शास्त्रीयः, चतुर्मासीयाशनविकृतिग्लानवैयाश्यगोचरचर्यागृहाद्यवस्थानसङ्खडीलोचवर्षागमनोपाश्रयमात्रकादिनहणक्षमणप्रभृतिः प्रकटीचक्रे प्रकटयशस्कैः पूज्यैरत्र, विद्यन्त एवानेकाः प्रस्तुतटीकाव्यतिरिक्ताष्टीकाः परमाधुनिकसाधूनां न तथानन्दप्रदाः प्राकृतादिपाचुर्यात्ता इति प्रार्थिताः पूज्या विबुधविजयैः श्रीरामविजयपादारविन्दमधुकराभैः नूतनवृत्तौ प्रार्थनाभङ्गभीरुभिरारब्धा पूज्यैः शोधिता चेयं श्रीभावविजयगणिभिः श्रीविनयविजयोपाध्यायसपक्षैः । वाचनप्रथा चास्याः पर्युषणापर्वणि प्रायः सर्वत्रेति देवचन्द्रलालभाई-जैनपुस्तकोद्धाराख्याल्लक्षद्रम्मात्मकात् मुद्रितायाश्चाप्यस्या मुद्रणमारब्धमस्माज्ज्ञानकोशात्तदध्यक्षैः । विद्यन्तेऽस्य चूर्णिर्मागधीभाषामयी, किरणावलीदीपिके इति च वृत्ती, अन्तर्वाच्यानि चापरिमितानि, खाद्यख्याताः कल्पलताद्याश्च वृत्तयोऽष्टाष्टादिव्याख्यानमय्यश्च सन्त्येवात्र तत्तन्मतानुगानुगम्या इति विरम्यतेऽथातः क्षन्तव्यमुक्तं चेदलीकं मतिमोहादिना कृपाभिलाषुके मयि विधाय कृपां श्रीमदकलङ्कन्देवपूज्यचतुर्वर्णश्रमणसळपादपकजचश्चरीके।
मास्यापाढे सिते वर्षे द्वीपरसनन्देन्दुगे (द्वीपषड्तन्दचन्द्रगे) आनन्दोऽनन्तजिद्भक्तश्चतुर्दश्यां जगाविमम् । १ ।
For Private & Personal use only
00000000000000000000000000000000000000000
॥११॥
Jain Education inte
jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 618