Book Title: Kalpsutravrutti Subodhikabhidhana
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ कल्प. ०००००००००००००००००००००००००००००००००००००००000000000000 पूर्वसाधनता स्वपक्षणोत्सबारम्भ आर्यिकाकर्णनं तत्कृता स्खलना हठः कल्याणकीयोत्सवे श्रीजिनवल्लभीय इत्यादि सविस्तरमुद्दिष्ट गणधरसार्धशतकाधारण, पश्चाद्वस्तुपटकमिदमेव विकृण्वता च्यवनकल्याणके शक्रस्य समृद्धिः शृङ्गारः सातोपभोगश्च वर्णितः, मग्नेनापि सुखातिशये तन्निदाने धर्म उद्यमोऽवयं विधेय इति ज्ञापनाय, उपमुहितश्च शक्रस्तवः, शक्रस्तवोऽप्यत एव हेतोः पठ्यते प्रणिपातदण्डकः, विकृतं त्वेकदेशे नान्यदिति नावश्यकादिप्रणिपातदण्डकानां दीवो इत्यादिप्रथमान्तपदरहितानां न शक्रस्तवता । यद्यपि चद्वयशीतिरात्रिंदिवातिक्रमे गर्भसङ्क्रमः, प्रतिपादितं चात्राप्येवं, तथापि यच्छकस्तवानन्तरमेव भणितिरविलम्बेन, सा चिरं दुःख्यवस्था नोपनिबन्धनीयेतिहेतोः, तत्त्वतस्तु व्यशीतितमे दिने निर्जीणे नीचगोत्रे चलितमासनं, दत्ते चोपयोगे ज्ञाते च तत्रावतारे कृता परावृत्तिर्गर्भस्य, युक्तं चात एवाभिग्रहधारणमपि तदा । यतः परावर्तिते गर्भे चकाराक्रन्दं ज्ञातगर्भपरावर्ता स्वप्नचतुर्दशकापहारदर्शनेन देवानन्दा, दृष्ट्वा च तां तथाविधां संजातमातृभक्तिमाग्भारोऽस्थाद्भगवान्निश्चलः, जाता राजसचिवसख्यादिपरिवृता रत्नकुाक्षधारिणी त्रिशला आपनमूर्छा, दृष्ट्वा च दुःखद्वन्दं विममर्श प्रभुः परिणामवैचित्र्यं, विदधे चाभिग्रहं यावन्मातापितॄजीवनं न प्रव्रजिष्यामीत्यात्मकं, वर्णयित्वा च पुण्यपारभारसूचनप्रत्यला दौर्हदततिं पूर्ति च तस्याः, कर्मोदयादिज्ञापकज्योतिश्चक्रचारज्ञापनपुरस्सर प्रमोदकारणानि चाख्यायोपनिवबन्धुः पूज्यपादा जननमखिलकल्याणकरं निखिलासुमतामनाहतैश्वर्यस्य भगवतः। महोत्सवं च ततः जनुषः श्रीमतोऽमरनराधिपविहितं निवर्णयांचक्रुर्महोत्सवमभिषेकस्य चालनं चामराचलस्य, गार्हस्थ्यं चामलकीक्रीडालेखशालामोचनैन्द्रव्याकरणोत्पत्तिपरिणयनमातापितृस्वर्गमहद्धात्राग्रहवर्षद्वयावस्थानसांवत्सरिकदानप्रव्रज्यामहोत्सवपर्यन्तं स्पष्ट स्पष्टितवन्तः, निष्क्रम्पागारात्मतिपन्ने च प्रव्रज्यां स्वाभाविक उपसर्गससंर्गोऽनेकधा जातः सोढश्च सर्वोपि महात्मना, तेन ख्यातश्च 1000000000000000000000000000000000000000000000000000 11८ Jain Education For Private & Personel Use Only iww.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 618