Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 384
________________ देवभद्रसरिविरचित प्रमाणप्रकाशः॥ प्रत्यक्षमथ परोक्षं द्विधैव [तत् तत्र चादिमं द्वेधा । नैश्चयिकमथ व्यवहारकारि पूर्व पुनस्रोधा ॥ ५ ॥ अवधि-मनःपर्यय-केवलानि षोढा द्वितीयमन्यत् तु । प्रत्यक्षादिनिमित्तं परोक्षमेतच्च पञ्चविधम् स्मरण प्रत्यभिज्ञानं तर्को लैङ्गिकमागमः । विषयः फलमाभासाः स्याद्वादो नय-दुर्नयौ । वादन्यायस्ततः सर्वविच्वे [च] भुक्तिसम्भवः । पुं-स्त्रियोश्च समा मुक्तिरिति शास्त्रार्थसत्रहः प्रमाणं ज्ञानं प्रामाण्यस्यान्यथानुपपत्तितः । नाज्ञान सनिकांदिन साधकतम यतः ॥९॥ अर्थस्य प्रमितौ न साधकतम: स्यात् सन्निकर्षों यतः, स्वस्थासौ प्रमितौ न साधकतमः कुम्भादिवत् कर्हिचित् ।। अर्थश्चाप्रमितः कथं मतिधनैस्त्यज्येत गृह्येत वा ?, सम्यग्ज्ञानमतः प्रमाणमपरं नो सन्निकर्षादिकम् ॥ १० ॥ प्रदीप-नयनादिभिर्न च भवत्यनैकान्तिको, न साधकतमा यतस्त इह मुख्यवृत्या मितौ । परम्परितकारणे करणता यदि त्विष्यते, तदा करणलक्षणे बत! जलाञ्जलिर्दीयताम् ये सनिकर्षमचदन् निपुणाः प्रमाणमध्यक्षता किमु न तैर्नभसः प्रपन्ना। यद् भौतिकेन नयनेन वि[हायसस्तः, शास(शक्यते स्खलयितुं नहि सभिकर्षः ।। १२॥ भूषा(रूपा)भावानभसि न यदि स्यादणौ तत्र [...]स्यानुभूतत्वे नयनजमले स्यात् समुद्भूतरूपे । तस्मात् स्वार्थग्रहणनियता ज्ञानरूपैव शक्तिर्ज्ञातुः कर्मापचयजनिता मुख्यवृत्या प्रमाणम् ॥१३॥ प्रमाणाभावतो सच्चे संयोग-समवाययोः । सनिकषोमिदाख्यानं वान्ध्येयगुणवर्णनम् ॥१४॥ BACAAAA%A5%TERASHASA%AARAASEX ECREASEASANASANATABASA4%A3%A5A5815433 दण्डीति मतिस्त्वन्मतसंयोगविमुक्तवस्तुभेदकृता । संयुक्ताकारत्वाद् युक्ता प्रासादबुद्धिरिव ॥१५॥ संयोगनिराकरणम् । यद्यमानो मित्रं समवायस्तत्र तस्य नैव यथा । स्वात्मनि पटनवतन्तु[.........]विशेषेभ्यः पटो मिनः ॥ १६ ॥ यद् वृश्य (दृश्य) सद् यस्माद् व्यतिरेकेणोपलभ्यते न ततः। तदभिन्नं स च तेभ्यस्तथाऽन्यथोच्छिद्यते भेदः ॥१७॥ ज्ञानस्य स्वप्रकाशत्वं केवलव्यतिरेकिणा । अर्थप्रकाशकत्वेन सिद्धसङ्केतका सुधीः ॥१८॥ यच्चोच्यते ज्ञानमिहापरेण, ज्ञानेन वेद्यं खलु मेयभावात् । घटादिवत् तत्र महेशबुया, नैकान्तिकत्वे स्फुटमेच हेतोः पृथग्जनज्ञानमपेक्ष्य साधने, न च स्थिति, व्यभिचार एव वा । सुवेदनेऽध्यक्षवलाच सुस्थिते, हेतोरकिश्चित्करता निवार्या ॥ २० ॥ अन्तर्मुखो यः प्रतिभासमेदः, स साधयेद् ज्ञानगतं प्रकाशम् । बहिर्मुखस्त्वर्थगतं तदेवं, ज्ञानं प्रसिद्ध्येत् स्व-परप्रकाशम् ॥ २१॥ न च द्वयेऽपि प्रतिभासमाने, शक्योऽपलापोऽन्यतरस्य कर्तुम् । प्रत्यक्षता संविदि चात्र मुख्या, ज्ञेये पुनः स्यादुपचारवृश्या ॥ २२ ॥ यत् यस्मिन्नुपलब्धिलक्षणगताकारेण नाऽऽभासते, वाच्य तम तदात्मकं किल यथा कुम्भ: पटाद्याकृतिः

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393