Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 388
________________ देवभद्रसरिविरचितः प्रमाणप्रकाशः। कलुपिनयनवृत्तेवाकचिक्यावलोकोल्लसितकलिततारानुस्मृतेः शुक्तिकायाम् । रजतमिव(द)मितीदं ज्ञानमत्र प्रमातु[:], कथयति विपरीतख्यातिमाराध्यवर्गः ॥६६॥ विपरीतख्यातिः। तीवाभ्यासदशा भवेद् यदि ततः प्रामाण्यमस्य स्वतः, सा चेन्नास्ति ततः परादधिगतप्रामाण्यभावात् स्वतः। उत्पत्तौ परतोऽथवाऽर्थविषयच्छिचौ स्वकार्ये च तत् ,स्वभ्यासे...क्वचित्म(त् स?)तः क्वचिदिदं स्यादन्यतो पाटवे॥६७॥ कर्तभोकृपरिणामिदेहितो, भिन्नभिन्नमविनाशि नाशि यः ।। आत्मवस्तु न हि मन्यते प्रमासिद्धिमस्य विधि)गहो! विवेकिता ॥ ६८ ॥ निःसन्देहमबाधितं सुखमहं संवेदयामीति यद्, ज्ञानं तन शरीरगोचरमहङ्कारास्पदं तत्र तत् । स्थूरोऽस्मीति यदौपचारिकमिदं भृत्येऽपि राजेतिवत् , स्वात्मान्तःकरणेन बाबकरणाभावे [...]तत् गृह्यते ॥ ६९॥ रूपादिविज्ञानमिहाश्रितं वचिद् , गुणत्वतो रूप-रसादिवत् तथा । ज्ञानाद्युपादानविशेषपूर्वकं, कार्यत्वहेतोः कलसा(शा)दिकं यथा ॥ ७०॥ आत्मद्रव्यमनन्तपर्ययममी चास्मात् कथश्चित् पृथक, ते यस्मादुदयन्ति केचिदपरे नश्यन्ति चानुक्षणम् । द्रव्यं तु ध्रुवमेतदप्यतितरां तेभ्यो न वे(चेद् ) भिद्यते, यन्त्र क्वापि विलोक्यते जगति तत् पर्यायपिण्डं विना ॥ ७१ ॥ K+%+6+KKAKAKKAKAKKAKKAKAAREER+KARNER KAKKAKKAKKAKKARAKASKAR+C+K+KAKAR-%%%%*&+ आस्माविज्ञानयोर्मेदामेदेऽनुभवस्विस्थिते(१)। कर्तृत्वे करणत्वादिलक्ष्मीमपहरेत का? ॥७२॥ द्वेधा वस्तु विनिश्चयेन भवति प्रत्यक्षमत्यक्षमित्यन्तर्भावविधेश्च निर्न(ण)यकृतां शेषप्रमाणामिह । ये त्वेकादिषडन्तमभ्युपगताचार्वाकमुख्याः परे, मानं तान्न विमुञ्चतीह बलवान व्याप्तिदोषग्रहः॥ ७३ ॥ प्रत्यक्षं विशद ज्ञान प्रत्यक्षत्वेन हेतुना । यत्रोक्तसाध्यं तमोक्तसाधनं लिङ्गिकादिवत् ॥ ७४ ॥ ज्ञानान्तराव्यवहित[...]मथो विशेष[......]त्वमस्य विशदत्वमुशन्ति सन्तः । सर्वात्मना कचिदिदं कचिदंशतः स्याद्, द्रव्यादिकारणकलापवशात् प्रमातु: आत्मानमक्षमवदत् प्रति तं गतत्वादध्यक्षमक्षवचनाचनपेक्षमेव । खावारकत्रुटिकतां पटुतां दधानं, स्वे गोचरेऽवधिमतो गमकैवलाख्यम् रूपि द्रव्यमवैति सर्वमवधिज्ञानी मनापर्ययज्ञानी मानुषलोकसंज्ञिमनसा जानाति तान् पर्ययान् ।। द्रव्यं क्षेत्रमतीत-भावि-भवि(ब)तः कालान् गुणान् पर्ययान् , सर्वान् केवलिनः क्षतावृतितया जानन्ति पश्यन्ति च ॥७॥ यचेन्द्रियैः स्वविषयेषु मनःसहायरक्षानपेक्षमनसा च किल क्रियेत । कर्मक्षयोपशमचित्रतया विचित्रं, तद्वयावहारिकमिहाहुरवग्रहादि ॥ ७८॥ अक्षार्थयोगो(गः) किल निर्विशेषसच्चाश्रयालोचनदर्शनोत्थम् । संस्थान-वर्णादिविशिष्टवस्तुज्ञानं यद(दा)यं तदवग्रहः स्यात्

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393