Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 17
________________ क्षायिकसम्यग्दृष्टिः परममुनिप्रणीतां सावद्ययोगविरतिं देशतः सर्वतो वा सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन् अप्रत्याख्यानप्रत्याख्यानावरणकषायोदयविध्नितत्वान्नाभ्युपगच्छति गुणास्थानकानि न च तत्पालनाय यतते स इहाविरतसम्यग्दृष्टिरुच्यते, एते चाविरतसम्यग्दृष्टयोऽसङ्ख्याताः सर्वदैव प्राप्यन्त इति बहुवचनं, 'चः' समुच्चये, एवमन्यत्रापि ४। 'देसविरयत्ति सर्वसावधयोगस्य देशे-एकव्रतविषये स्थूलप्राणातिपातादिसर्वव्रतविषयानुमतिवर्जसर्वसावधयोगान्ते विरत -विरतिर्यस्यासौ देशविरतिः, सर्वसाक्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानावरणकषायोदयनिवारितत्वादिति, देशविरतिश्चासौ सम्यग्दृष्टिश्च देशविरतिसम्यग्दृष्टिः, उक्तञ्च–“सम्मइंसणपहिलो गिराहतो विरइमप्पसत्तीए । एगधयाइचरिमो अणुममितेत्ति देस्जई ॥१॥ परिमियमुवमेवंतो अपरिमियमणतयं परिहरंतो। पावइ परम्मि लोए अपरिमियमणातयं सोक्खं ॥ ३ ॥" एतेऽपि देशविरतसम्यग्दृष्टयोऽसङ्ख्याताः सर्व-N देव लभ्यन्ते ।। उक्ताः सर्वविरतिरहितजन्तुसम्भविनो जीवभेदाः, साम्प्रतं तत्सहितजन्तुसम्भविनस्तान् विभणिषुराह-विरया पमत्त इयरे' त्ति विरमन्ति-सर्वसावद्ययोगानिवर्तन्त इति विरताः, ते च द्विविधाः-प्रमत्ता इतरे च, तत्र सचलनकषायोदयान्मयविषयकषायनिद्र विकथालक्षण : प्रमादस्थानः सर्वैरन्यतरेण वा प्रमाद्यन्ति-संयमयोगेषु सीदंतीति प्रमत्ताः न प्रमत्ता अप्रमताः, सर्वथा यथोकप्रमादरहिता इत्यर्थः ७ । 'अपु व' ति इहापि भीमो भीमसेन इति न्यायादेकदेशेन समुदायस्य गम्यमानत्वादपूर्वकरणा इत्यर्थः, तत्र स्थितिघातरसघातगुणश्रेणिगुणसङ्कमस्थितिबन्धादिपदार्थानामपूर्व-तत्प्रथमतयाऽभिनवं करणं क्रिया येषु तेऽपूर्वकरणाः, तथाहि बृहत्प्रमाणाया ज्ञानावरणादिकमस्थितेरपवर्तनाकरणेन खण्डनम्-अल्पीकरणं स्थितिघात उच्यते, रसस्यापि कर्मपरमाणुगतस्निग्धत्वलक्षणस्य तेनैव करणेन खण्डनं घातो रसघातः, एतौ च द्वावपि पूर्वगुणास्थानेषु विशुद्धरल्पत्वादल्पावेव कृतवन्तः, अत्र पुनविशुद्धबृहत्प्रमाणतया पूर्वाविमौ कुर्वन्ति, तथोपरितनस्थितेविशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तमहुर्तप्रमाणमुदयक्षणादुपरिप्रतरक्षपणाय प्रतिक्षणं गुणेन असङख्येयगुणवद्ध्या विरचनं गुणश्रेणिरित्युच्यते, स्थापना, एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात्कालतो दी| दलिकविरचनामाश्रित्य प्रथीयसी दलिकस्याल्पस्यापवर्तनाद्विरचितवन्तः, अत्र तु तामेव विशुद्धत्वादपूर्षों कालतो ह्रस्वतरां दलिकविरचनामङ्गीकृत्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद्विरचयन्तीति, तथा बध्यमानाशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्य प्रतिक्षणं- गुणेन-प्रसङख्येयगुणव्या विशुद्धिवशात्सङक्रमणं-सच्चारणं नयनं गुणसङक्रमः, तमप्येते विशिष्टतर

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 308