________________
क्षायिकसम्यग्दृष्टिः परममुनिप्रणीतां सावद्ययोगविरतिं देशतः सर्वतो वा सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन् अप्रत्याख्यानप्रत्याख्यानावरणकषायोदयविध्नितत्वान्नाभ्युपगच्छति
गुणास्थानकानि न च तत्पालनाय यतते स इहाविरतसम्यग्दृष्टिरुच्यते, एते चाविरतसम्यग्दृष्टयोऽसङ्ख्याताः सर्वदैव प्राप्यन्त इति बहुवचनं, 'चः' समुच्चये, एवमन्यत्रापि ४। 'देसविरयत्ति सर्वसावधयोगस्य देशे-एकव्रतविषये स्थूलप्राणातिपातादिसर्वव्रतविषयानुमतिवर्जसर्वसावधयोगान्ते विरत -विरतिर्यस्यासौ देशविरतिः, सर्वसाक्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानावरणकषायोदयनिवारितत्वादिति, देशविरतिश्चासौ सम्यग्दृष्टिश्च देशविरतिसम्यग्दृष्टिः, उक्तञ्च–“सम्मइंसणपहिलो गिराहतो विरइमप्पसत्तीए । एगधयाइचरिमो अणुममितेत्ति देस्जई ॥१॥ परिमियमुवमेवंतो अपरिमियमणतयं परिहरंतो। पावइ परम्मि लोए अपरिमियमणातयं सोक्खं ॥ ३ ॥" एतेऽपि देशविरतसम्यग्दृष्टयोऽसङ्ख्याताः सर्व-N देव लभ्यन्ते ।। उक्ताः सर्वविरतिरहितजन्तुसम्भविनो जीवभेदाः, साम्प्रतं तत्सहितजन्तुसम्भविनस्तान् विभणिषुराह-विरया पमत्त इयरे' त्ति विरमन्ति-सर्वसावद्ययोगानिवर्तन्त इति विरताः, ते च द्विविधाः-प्रमत्ता इतरे च, तत्र सचलनकषायोदयान्मयविषयकषायनिद्र विकथालक्षण : प्रमादस्थानः सर्वैरन्यतरेण वा प्रमाद्यन्ति-संयमयोगेषु सीदंतीति प्रमत्ताः न प्रमत्ता अप्रमताः, सर्वथा यथोकप्रमादरहिता इत्यर्थः ७ । 'अपु व' ति इहापि भीमो भीमसेन इति न्यायादेकदेशेन समुदायस्य गम्यमानत्वादपूर्वकरणा इत्यर्थः, तत्र स्थितिघातरसघातगुणश्रेणिगुणसङ्कमस्थितिबन्धादिपदार्थानामपूर्व-तत्प्रथमतयाऽभिनवं करणं क्रिया येषु तेऽपूर्वकरणाः, तथाहि बृहत्प्रमाणाया ज्ञानावरणादिकमस्थितेरपवर्तनाकरणेन खण्डनम्-अल्पीकरणं स्थितिघात उच्यते, रसस्यापि कर्मपरमाणुगतस्निग्धत्वलक्षणस्य तेनैव करणेन खण्डनं घातो रसघातः, एतौ च द्वावपि पूर्वगुणास्थानेषु विशुद्धरल्पत्वादल्पावेव कृतवन्तः, अत्र पुनविशुद्धबृहत्प्रमाणतया पूर्वाविमौ कुर्वन्ति, तथोपरितनस्थितेविशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तमहुर्तप्रमाणमुदयक्षणादुपरिप्रतरक्षपणाय प्रतिक्षणं गुणेन असङख्येयगुणवद्ध्या विरचनं गुणश्रेणिरित्युच्यते, स्थापना, एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात्कालतो दी| दलिकविरचनामाश्रित्य प्रथीयसी दलिकस्याल्पस्यापवर्तनाद्विरचितवन्तः, अत्र तु तामेव विशुद्धत्वादपूर्षों कालतो ह्रस्वतरां दलिकविरचनामङ्गीकृत्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद्विरचयन्तीति, तथा बध्यमानाशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्य प्रतिक्षणं- गुणेन-प्रसङख्येयगुणव्या विशुद्धिवशात्सङक्रमणं-सच्चारणं नयनं गुणसङक्रमः, तमप्येते विशिष्टतर