________________
गुगास्थानकानि
RAM भवन् मिथ्यात्वस्थितेरुदयक्षणादारभ्यान्तमतदुपरितत्प्रदेशवेद्यमिथ्यात्वदलिकवेदनाऽभावल्पमन्तरकरणं करोति, एतस्मिंश्च कृते मिथ्यात्वमोहनीयस्य कर्मणः स्थितिद्वयं भवति
अन्तरकरणादधस्तनी अन्तम हुर्तमात्रा प्रथमस्थितिः तस्मादेवापरितनी अन्तम होनाऽन्तःसागरोपमकोटीकोटिप्रमाणा शेषा द्वितीयस्थितिः, स्थापना, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तमहुर्तेन वा पुनस्तस्यामधस्तनस्थितौ क्षपितायामन्तरकरणप्रथमरूमय एव मिथ्यात्वदलिकवेदनाऽभावादौपशमिकं सम्यक्त्वमवाप्नोति, यथा हि वनवह्निः पूर्वदग्धेन्धनमूषरं (वा) प्रदेशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरपि तत्प्रदेशवेद्यमिथ्यात्वदलिकाभावरूपमन्तरकरणमवाप्य विध्यायत्येव, तस्यां च परमनिधिलाभाकल्पयामान्तर्मोहुत्तिक्यामुपशान्ताद्धायां जघन्येन स्मरशेषायामुत्कृष्टतः षडावलिकावशिष्टायां कस्यचिन्महाविभीषिकोत्थानवाल्पोऽनन्तानुबन्धिकषायोदयः सम्पद्यते, तदुदये चायमा- |
सादनसम्यग्दृष्टिर्भवति, उपशमणिप्रतिपतितो वा अनन्तानुवन्धिकषायोदये प्रासादनसम्यग्दृष्टितां कोऽप्यवाप्नोति, जघन्यतः समयादुत्कृष्टतः षडावलिकाभ्यः पुनरूद्ध मवश्यं मिथ्यात्वोE दयादसौ मिथ्यादृष्टिरेव भवतीत्यलं विस्तरेण, एते चासादनसम्यग्दृष्टयः कदाचिदुत्कृटतोऽसङ्ख्येयाः प्राप्यन्त इति सविरोषमुपरिष्टाद्वक्ष्यत इति । 'मिस्वाति सम्यक् च मिथ्या
चेत्येव मिश्रा दृष्टियस्येति मित्रदृष्टिः, इदमत्र हृदयम्-अनन्तरवर्णितविधिना लब्धेनौषधविरोक्कल्पेनौपशमिकसम्यक्त्वेन मदनकोद्रवबदशुद्धं दर्शनमोहनीय कर्म जोवः शोधयित्वा व त्रिधा करोति, तयथा शुद्धमर्धविशुद्धमविशुद्धं चेति, स्थापना, त्रयाणां चैतेषां पुजाना मध्ये यदाऽर्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशाद विशुद्धमहंइष्टतत्त्वश्रद्धानं भवति जीवस्य ततोऽसौ मिश्रदृष्टिरुच्यते, सम्यग्मिथ्यादृष्टिरित्यर्थः, अन्तमहा चैतस्मिन् गुणस्थानेऽवतियते, तह सम्यक्त्वं मिथ्यात्वं वाऽवश्यं गच्छति, आहच—"मिच्छामो संकेती अविरुद्धा होइ सम्ममीसेसुं । मीसामो वा दोसु सम्मा मिच्छ न पुण मीसं ॥१॥" [मिथ्यात्वात् सम्यत्तमिश्रयोः संक्रान्तिरविरुद्धा भवति । मिश्राद्वा द्वयोः सम्यक्त्वात् मिथ्यात्वे | मित्रे तु न ||१11] एतेऽपि मित्रदृष्टयः कदाचिदुत्कृष्टतोऽसयेयाः प्राप्यन्त इत्ययत्रैव वक्ष्यत इति ३। 'अविरयसम्मा य' ति विरमते-सावधयोगेभ्यो निवर्तत - इति 'गत्याकर्मके' त्यादिना कर्तरि विहिते क्तप्रत्यये विरतो न तथा विरतः, अथवा नपुंसके भावे कप्रत्यये विरमणं विरतं-सावद्ययोगप्रत्याख्यानमेव नास्ति विरतमस्येयविरतः स
चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः, अयमत्र भावार्थः- यः पूर्वोत्वर्णितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुजोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः क्षीणदर्शनसप्तको वा