________________
101
व्याख्या- 'मिच्छत्ति इह सूचामालत्वात्सूतस्य यथासम्भवं सर्वतैकदेशेन समुदायो गम्यते, ततश्च भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवन्निमध्या-विपर्यस्ता दृष्टिः- अर्हत्प्रणीतवस्तुप्रतिपत्तिर्यस्य स मिथ्यादृष्टिः, मिथ्यात्वमोहनीययः मोंदयानिदृष्टयथाऽवस्थिततत्त्वार्थश्रद्धानरहित इत्यर्थः उक्तञ्च – “त' मिच्छतं जमसद्द गां तचाग होइ भावाणं । संसइयमभिग्गहियं प्रणभिग्गहियं च त तिविहं ॥ १ ॥” अपरञ्च—“ पयमक्खरंपि एक्कपि जो न रोएइ सुत्तनिहिडौं । सेयं विमिच्छि जमालव्य || २ ||" समस्तजीवराशेानन्ततमभागरहिताः शेषाः सर्वेऽपि जीवा मिध्यादृष्टय : १ । 'आसायण त्ति आयम्- प्रौपशमिकसम्यक्त्वलाभलक्षणं सादयति अपनयतीति आसादनं-अनन्तानुबन्धिकषायवेदनमिति, नैरुको यशब्दलोपः सति ह्येतस्मिन्ननन्तानुबन्धिकषाय वेदनेऽनन्तसुखफलदो निःश्रेयसतरबीजभूत औपशकिसम्यक्त्वलाभो जघन्यतः रमयेनं.त्कृष्टतः षड्भिरावलिका भिरपगच्छतीति प्रासादन्यो गाजीवोऽप्यासादनः स चासौ सम्यग्दृष्टिश्वासादनसम्यग्दृष्टिः, अथवा आसमन्ताच्छातयति-स्फोटयत्योपशमिकसम्यक्त्वमित्याशातनं अनन्तानुबन्धिकषाय वेदनमेव तद्योगाज्जीवोऽप्याशातनः स चासौ सम्यग्दृष्टिचेत्याशा तनसम्यग्दृष्टिः, यदिक सम्यक्त्वरसमयाप्यास्वादयति न पुनः सर्वथा परित्यजतीत्यास्वादनः स चासौ सम्यग्दृष्टि त्यास्वादनसम्यग्दृष्टिः, अयं च यथा भवति तथोच्यते-इह गम्भीरापारसंसारसागरमध्यविपरिवर्त्ती जन्तुः रुबलदुःखपादपबीजभूतमिध्यात्वप्रत्यय मनन्तान् पुद्गलपरावर्त्तनिनन्तानि दुःख क्षारमनुभूय कथमपि तथाभव्यत्व परिपाकवशा द्विरिसरिदुपल, लनाकल्पेनाध्यवसायरूपेणानाभोगनि तितेन यथाप्रवृत्तकरणेनायुर्वर्जानि ज्ञानावरणादिकर्माणि पृथगन्तः सागरोपमकोटीको टिस्थितिकानि करोति, अल चान्तरे तथाविधकर्ममलपटलतिरस्कृतजीववीर्य विशेषाणामसुमतां दुर्भेयः कक शनिविडचिर गूढग्रन्थिरिव कर्मपरिणामजनितो निविडरागद्वेषपरिणामरूपोऽभिनंपूर्वी ग्रन्थिर्भवति, तदुक्तं" गठित्ति सुदुभेओ कक्खडथरारूढगूढगंटिव्व । जीवस्स कम्मजणियो घणरागद्द सपरिणामो ॥ १ ॥” अमुं च ग्रन्थि ं यावदभव्या अपि यथाप्रवृत्त करणे क्षपथित्वाऽनन्तशः समागच्छन्त्येव ततो ग्रन्थिभेदं कर्तुमसमर्थः पुनरपि व्यावृत्य संक्ले शवशादुत्कृष्टस्थितीनि कर्माणि कुर्वन्ति, कश्चित् पुनर्महात्मा समासन्ननिवृत्तिसुखः समुल्लसितप्रचुरदुर्वारवीर्यप्रसरः प्रच्चण्डकुलिशदण्डेनेव भूधरं यथोक्तप्रन्थिमननुभूतपूर्व तथाविधविशिष्टविशुद्धपात्मकेनापूर्वकरणेन तं भित्त्वा विशिष्टतरविशुद्यात्मकमेवानिवृत्तिकरणमनु
0
गुणस्थानक स्वरूपम्
॥७॥