________________
॥ ६ ॥
स्वयमभ्यूयः, तथा-" विग्गहगइमावना केवलियो समुहया अजोगी य। सिद्धा य प्रणहारा सेसा आहारगा जीवा ॥ १ ॥” इति वचनादाहारकानाहारकभेदत द्विधा जीवसमासः, तथा मुक्तिगमनयग्यो भव्यस्तद्गमनायोग्य स्त्वभव्यः सिद्धरंतु न भव्यो नाप्यभव्य इत्येवं त्रिधा जीवसमासः, तथा मनोवाक्काययोगैस्तदभावेन च चतुर्द्धा आदिग्रहणात्क्रोधमानमायालो भैस्तदभावेन पञ्चधा, तथा मिथ्यात्वसास्वादनौपशमिक क्षायिक क्षायोपशमिकमित्रसम्यक्त्वभेदात्षोढा, तथा कृष्णादिलेश्याषट्केनो तदभावे च सप्तधा, तथा वेदना कषायमरणवै क्रियाहारक तेजः केवलिसमुद्घातैस्तदभावेन चाष्टघा, तथाऽण्डजपोतजजरायुजरसजसंस्वेदजसंमूर्च्छ जोद्भिन्नौपपातिकःयौनिक भेदान्नवधा, तथा पृथिव्यप्त जो वायुवनस्पतिद्वीन्द्रिय लीन्द्रिय चतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियभेदाद्दशधा तथा पर्याप्तापर्याप्त कद्वित्रिचतुष्पञ्चेन्द्रियभेदादनिन्द्रियैः सहेकादशधा तथा ज्ञानपञ्चकाज्ञानत्रयसम्बन्धिभिरष्टभिः साकारोपयोगैश्चक्षुरचक्षुरवधिकेवलदर्शनसम्बन्धिभिश्चतुर्भिरनाकारोपय गैर्द्वादशधा तथा पर्याप्तापर्याप्तष्टथिव्यप्त ेजोवायुवनस्पतिकायत्रसभेदादकायप्रक्षेपाच्च त्रयोदशधा, 'मिच्छद्दिही सासायणे य तह सम्ममिच्छदिही ये ' त्यादिचतुर्दशगुणस्थानभेदाच्चतुर्दशधा तथा पर्याप्तापर्याप्तसूक्ष्मबादरै केन्द्रियद्वित्रिचतुरिन्द्रियासज्ज्ञि सशिपचेन्द्रियैर्मुचश्च पञ्चदशधा तथा चतुर्विधवाग्योग्चतुर्विध मनोयोगराविधकाय योगैस्तद्भावेन च षोडशधा, एवमाद्ये कोतरया वृद्ध्या बहवो जीवसमासभेदाः सम्भवन्ति अतश्चतुर्दशजीवसमास इति विशेषणमादौ कृतम् एतेभ्यो मध्याच्चतुर्दशानामेव जीवभेदानामिह ग्रन्थेऽनुगमनं व्याख्यानं करिष्यामि, तुरेकारार्थः, स च चतुर्दशानामेवेत्यत्र योजित एव, आह- ननु यद्यपरेऽपि जीवभेदाः संभवन्ति तत्किमिति शेषपरिहारेण चतुर्दशैवेह व्याख्यायन्ते इति, उच्यते, अमीषां बहुतरविचारविषयत्वेन विशिष्टशिष्य मतिव्युत्पत्तिसम्भवतो विशेषोपयोगित्वादिति गाथार्थः ॥ ७ ॥ के पुनस्ते चतुर्दश जीवसमासा येऽल व्याख्यास्यन्ते : इत्याह
मिच्छा १ ssसायण २ मिस्सा ३ अविरयसम्मा ४ य देसविरया ५ य विरया पमत्त ६ इयरे ७ अयुव ८ अणियहि ६ हुमा १० य ॥८॥ उवसंत ११ खीणमोहा १२ सजोगिकेवलिजिणो १३ अजोगी १४ य । चोद्दस जीवसमासा कमेण एएऽणुगंतव्या ॥ ६ ॥
जीवसमासाः
१४ ( गुण) स्थानकानि )
गा
॥ ६ ॥