SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ॥५॥ व्याख्या– सदित्येतत्पदं सत्पदं, जीवादीनां सत्त्वमिति तात्पर्यं तस्य गत्यादिमार्गणाद्वारेषु प्ररूपणता कार्या, यथा व नरकगत्यादौ कि तत् मिथ्यादृष्ट्यादिकं जीवस्य स्यात् ? इति तथा द्रव्यप्रमाणं चिन्तनीयं यथा व नरकगत्यादौ कियन्ति जीवद्रव्याणि प्राप्यन्ते इति तथा क्षेत्र वक्तव्यं यथा को जीवः कियत् - लमवगाहयति ?, तथा को जीवः कियत्क्षेल स्पृशति ? इत्येवंलक्षणा स्पर्शना च वाच्येति, तथा कस्य जन्तोः कियान् स्थितिकालः ? इत्यादि च निरूपणीयं, तथा नारकादीनां निरन्तरमुत्पद्यमानानां कदाचिदन्तरमपि भवति, तत् व कियत्प्रमाणं भवति ? इत्यादिस्वरूपमन्तरं प्रदर्शनीयम् अवान्तरे के जीवाः केषां कतिभागे वर्त्तन्ते इत्यादिलक्षणं भङ्गद्वारमप्यावश्यकादिषु दृश्यते तदिहाल्पबहुत्वद्वारान्तर्भावादिना केनचित्कारणेन नेोक्तमिति द्रष्टव्यं तथा क्षायिकादिभावानां मध्ये को जीवः कस्मिन् भावे क्त्तते ? इत्यादिलक्षणो भावः परिभावनीयः, तथा नारकादिजन्तुराशीनां च परस्परं कः कस्मादल्पो बहुर्वा ? इत्यादिलक्षणमल्पबहुत्वं विचारणीयमित्यष्टौ द्वाराणि जीवसमासव्याख्यानोपायरूपाणोति गावातङनेपार्यो, विस्तरार्थं तु सूत्रकारः प्रकरणररिसमाति यावद्वदयतीति ।। ५ ।। अथ गत्यादिमार्गेणाद्वाराययाहगइ इंदिए य काए जोए वेए कलाय नाणे य। संजम दंसण लेला भव सम्मे सन्नि आहारे ॥६॥ गतयो - नरकगत्यादिकास्तासु सत्पदप्ररूपणा दिद्वारेण जीवभेदा मिथ्यादृष्ट्यादयो मार्गणीयाः एवमिन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्या भव्यसम्यक्त्व सञ्ज्ञाऽऽहारकलक्षणेष्वपि त्रयोदशत्रु स्थानेभव जीवभेदाञ्चिन्तनीयाः, अत एवेतानि चतुर्दशापि मार्गणास्थानान्युच्यन्ते, जीवादिवस्तूनामेतेषु मृग्यमाणत्वात्, • जीवभेदानां चैव चिन्तनं विस्तरेण सूत्रकार एवं करिव्यतीति गायार्थः ॥ ६ ॥ नन्वा चतुईश जोवमाता व्याक्येयत्वेनेह प्रतिज्ञाताः तत्किं जीवसङ्ग्रहका भेदाः प्रकारान्तरेणापि संभवन्ति येन चतुर्दशेति विशेषणं विहितमित्याशङ्क्यान्यानपि समस्त जीवास्तिकायसङग्राहकान् भेदान् दर्शयन्नाह - आहारभव्वजोगाइएहिं एगुत्तरा बह भेया । एत्तो उ चउदसण्हं इहाणुगमणं करिस्सामि ॥ ७ ॥ व्याख्या – इहोपयागलक्षणो जीव इत्येको जीवसमासः, सर्वेषामपि जन्तूनामनेनैकेनैव भेदेन सङ्ग्रहात् मयं चोत्सर्गसिद्धत्वात्सुप्रतीतत्वाच्च सूत्रेऽनुकोऽपि चतुर्दश मार्गणाः बहुभेदा: गा. ६-७ ॥ ५ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy