________________
गुणस्थानकानि
त्वादिहापूर्वं कुर्वन्ति, तथा स्थितिं च कर्मणामशुद्धत्वात्प्राग् दीर्घा बद्धवन्तः, अत्र तु तामेव विशुद्धिप्रकर्षतो हस्वतयाऽपूर्वा बध्नन्तीत्येवं स्थितिघातादीनामिहापूर्वकरणता द्रष्टव्या, एते चापूर्व करणा द्विधा-मेहमीटकर्मणः क्षपणाहत्वात्क्षपकाः, तस्यैवोपशमाहत्वादुपशमकाः ८ । 'अनियट्टि' ति इहाप्येकदेशेन समुदायस्य गम्यमानत्वादनिवृत्तिबादरसम्पराया इत्यर्थः, तत्र युगपदेतद्गुणस्थानप्रविष्टानां 'बहुनां जीवानां परस्परसम्बन्धिनोऽध्यवसायस्थानस्य ब्यावृत्तिः-लक्षरयं निवृत्तिरिहाभिप्रेता, 'नास्ति तथाविधा निवृत्तिरेषामित्यनिवृत्तयः, समकालमेवैतद्गुणस्थानकं प्रविष्टस्यैकस्य विवक्षिते प्रथमाद्यन्यतरसमये यदध्यवसायस्थानं तदन्योऽपि विवक्षितः कश्चित्तदा तद्वत्येवेत्यर्थः, सम्परैति गर्यटति संसारमनेनेति सम्परायः-कषायोदयः, बादरः-सूदमसम्परायापेक्षया स्थुरः सम्परायो येषां ते बादरसम्परायाः, अनिवृत्तयश्च ते बादरसम्परायाश्व अनिवृत्तिवादरसम्परायाः, एते द्विविधाः-क्षपका उपशमकाच, तत्र क्षपका मोहस्य विंशतिप्रकृतीः स्त्यानद्धि लिकं त्रयोदश नामप्रकृतीश्च क्षपयन्ति, कथम् इति चेदुच्यते प्रथमं तावत्प्रत्याख्यानाप्रत्याख्यानावरणाख्यानष्टौ कषायान् क्षपरितुमारभन्ते, तेषु चार्द्धक्षपिते वेवातिशुद्धिवशादन्तराल एव स्त्यानद्धितिक नाम्नश्चेमास्त्रयोदश प्रकृतीरुच्छेदयन्ति, तद्यथा-नरकद्विकं तिर्यद्विकमकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयश्चतस्रः पातपमुद्द्योतं स्थावरं साधारणं सूक्ष्ममिति, एतासु च षोडशसु प्रकृतिषु ज्ञपितासु पुनः कषायाष्टकस्य क्षपितशेष क्षपयन्ति, ततो नपुंसकवेदं ततोऽपि स्त्रीवेदं तदनन्तरमपि च हास्यादिषटकं ततोऽपि पुरुषवेद तत ऊर्द्ध संचलनक्रोधं ततो मानं तताऽपि मायां क्षपयन्तीत्येवं मोहस्य विंशतिप्रकृतीः क्षपयन्ति, लोभमपि बादरं चापयन्ति, सूक्ष्मस्य सूक्ष्मसम्पराय एव क्षपणात, दर्शनसप्तकं तु प्रागेवाविरताद्यप्रमत्तान्तावस्थायां क्षपितमिति सपकव्यापारो दर्शितः, ये तूपशमकास्ते एताएव विंशतिप्रकृतीर्वक्ष्यमाणन्यायेनापशमयन्ति । 'सुहुमा य' ति, इहापि पूर्वोकनीत्या सूक्ष्मसम्पराया इत्यर्थः, तत्र सुक्ष्मः सम्परायः-किट्टीकृतलाभकषायोदरस्मपो येषां ते सूक्ष्मसम्परायाः, तेऽपि द्विविधाः-क्षपका उपशमकाच, तत्र नपका अनिवृत्तिबादरैः सूक्ष्मकिट्टीकृतं लाभ निर्मलत एवं क्षपयन्ति, उपशमकास्तु तमेवोपशमयन्तीति १० । 'उवलंत' त्ति उपशान्तकषाया इत्यर्थः, 'कषशिष' इत्यादि दण्डकधातुर्हिसार्थस्ततश्च कषन्ति कन्यन्ते वा परस्परमस्मिन् प्राणिन इति कषः संसारः पुंसि सम्झायां घः:प्रायेणे ' ति प्रायोग्रहणाद घप्रत्ययः, अन्यथा हलन्तत्वात् 'हलचे' ति घप्रत्ययः स्यादिति, कषमयन्ते
M