Book Title: Jambudwip Pragnapati Namak Mupangam Part_2 Author(s): Shantichandra Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ श्रीजम्य ६५ % | कत्वेन ये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति, अथवा वानमन्तरशब्देनात्र वनानामन्तरेषु चरन्तीति योगिकार्थसंश्रयणात् भवनपतयोऽपि वानमन्तरा इत्युच्यन्ते, उभयेषामपि प्रायो वनकूटादिषु विहरणशीलत्वादिति सम्भाव्यते, तत्त्वं तु बहुश्रुतगम्यमिति सर्वं सुस्थम्, आसां नामान्याह - 'तंजहा' इत्यादि, तद्यथा - भोगंकरेत्यादिरूपकमेतत् कण्ठ्यं ॥ अथैतास्वेवं विहरन्तीषु सतीषु किं जातमित्याह - 'तए ण' मित्यादि, ततस्तासामधोलोकवास्तव्या| नामष्टानां दिकुमारीणां महत्तरिकाणां प्रत्येकश्मासनानि चलन्तीति, अथैताः किं किमकार्षुरित्याह- 'तए ण'| मित्यादि, ततः - आसनप्रकम्पानन्तरं ताः - अधोलोकवास्तव्या अष्टौ दिकुमार्यो महत्तरिकाः प्रत्येकं २ आसनानि | चलितानि पश्यन्ति दृष्ट्वा चावधिं प्रयुञ्जन्ति प्रयुज्य च भगवन्तं तीर्थकरमवधिना आभोगयन्ति आभोग्य च अन्यमन्यं शब्दयन्ति शब्दयित्वा च एवमवादिपुः, यदवादिषुस्तदाह-- ' उप्पण्णे' इत्यादि, उत्पन्नः खलु भो ! जम्बूद्वीपे द्वीपे भगवांस्तीर्थकर तज्जीतमेतत्-कल्प एषोऽतीत प्रत्युत्पन्नानागतानामधोलोकवास्तव्यानामष्टानां दिक्कुमारी महत्तरिकाणां भगवतो जन्ममहिमां कर्त्तुं तद् गच्छामो वयमपि भगवतो जन्ममहिमां कुर्म्म इतिकृत्वा धातूनामनेकार्थत्वान्निश्चित्य | मनसा एवं - अनन्तरोक्तं वदन्ति, उदित्वा च प्रत्येकं २ आभियोगिकान् देवान् शब्दयन्ति शब्दयित्वा च एवमवादिषुः किमवादिषुरित्याह - ' खिप्पामेव ' इत्यादि, भो देवानुप्रियाः ! क्षिप्रमेव अनेकस्तम्भशतसन्निविष्टानि लीलास्थितशालभञ्जिकाकानीत्येवमनेन क्रमेण विमानवर्णको भणितव्यः, स चायं - ' ईहा मिगउसभतुरगणरमगर विहगवा लग किन्नर For Private & Personal Use Only jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 332