Book Title: Jain Vidya 12
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan

View full book text
Previous | Next

Page 88
________________ मुक्त आत्मा ऊपर ही क्यों जाता है ? पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च ॥6॥ पाविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च ॥7॥ धर्मास्तिकायाभावात् ॥8॥ –मो. शा. अ. 10 पूर्वसूत्रे विहितानां हेतुनामत्रोक्तानां दृष्टान्तानां च यथासंख्यमभिसंबन्धो भवति । तद्यथा-कुलालप्रयोगापादितहस्तदण्डचक्रसंयोगपूर्वकं भ्रमणम् । उपरतेऽपि तस्मिन्पूर्वप्रयोगादा संस्कारक्षयाद् भ्रमति । एवं भवस्थेनात्मनापवर्गप्राप्तये बहुशो यत्प्रणिधानं तद्भावेऽपि तदावेशपूर्वकं मुक्तस्य गमनमवसीयते । किं च प्रसङ्गत्वात् । यथा मृत्तिकालेपजनितगौरवमलाबुद्रव्यं जलेऽधः पतितं जलक्लेदविश्लिष्टमृत्तिकाबन्धनं लघु सदूर्ध्वमेव गच्छति तथा कर्मभाराक्रान्तिवशीकृत आत्मा तदावेशवशात्संसारे अनियमेन गच्छति । तत्सङ्गविमुक्तस्तूपर्येवोपयाति । किं च बन्धच्छेदात् । यथा बीजकोशबन्धच्छेदादेरण्डबीजस्य गतिईष्टा तथा मनुष्यादिभवप्रापकगतिजातिनामादिसकलकर्मबन्धच्छेदान्मुक्तस्य ऊर्ध्वगतिरवसीयते । किं च, तथागतिपरिणामात् । यथा तिर्यक्प्लवनस्वग्भावसमीरणसंबन्धनिरुत्सुका प्रदीपशिखा स्वभावादुत्पतति तथा मुक्तात्मापि नानागतिविकारकारणकर्मनिरिणे सत्यूर्ध्वगतिस्वभावादूर्ध्वमेवारोहति । गत्युपग्रहकारणभूतो धर्मास्किायो नोपर्यस्तीत्यलोके गमनाभावः । तदभावे च लोकालोकविभागाभावः प्रसज्यते । -प्रा. पूज्यपादकृत सर्वार्थसिद्धि टीका पूर्वप्रयोग से, संग का प्रभाव होने से, बन्धन के टूटने से और वैसा गमन करना स्वभाव होने से, घुमाये गए कुम्हार के चक्र के समान, लेप से मुक्त हुई तूमड़ी के समान, एरण्ड बीज के समान और अग्नि की शिखा के समान मुक्त जीव उर्ध्वगमन करता है । धर्मास्तिकाय का अभाव होने से मुक्त जीव लोकान्त से और ऊपर नहीं जाता ।

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114