Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 4
________________ ॥ अनन्तलब्धिमाचीसोजमस्यामि नमो नमः ॥ ॥ परमपरमगुरुभगवद्भ्यः श्रीविजयनेमिसूरीश्वरेभ्यो नमो नमः ॥ ॥ किञ्चित्प्रास्ताविकम् ॥ orgaऐन्द्रपूज्यं महावीरं, कादम्बतीर्थशेखरम् । नत्वा प्रस्ताव्यते किश्चिद्, गुरुं कल्पद्रुमं तथा ॥१॥ इह खलु संसारसमुद्रेऽपारपारावारेऽतिगहने निरन्तरज्वलकामौर्वाग्निभयङ्करे विकरालविकृतितटिनीसङ्गमसञ्जनितक्रोधावर्ते उत्सर्पद्रागद्वेषादिद्वन्द्वकल्लोलमालाकोलाहले महामोहजलपरिपूरिते परिवर्तमानानां स्वस्वसमुपार्जितादृष्टानुगुणानुगतानेकविधदुःखोद्विग्नमानसानां सकलक्लेशार्तिहेतुपरिजिहीर्षणामैकान्तिकात्यन्तिकपरमानन्दात्मकसुखनिमित्तोपादानलालसानां धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एवोपादेयोऽन्येषां प्रत्यक्षानुमानादिनाऽनित्यत्वस्यावधारणात, स च मोक्षोऽनादिमोहान्धकारविलुप्तालोकलोकानां शास्त्रैकदर्शितमार्गेण लभ्योऽन्यथा शास्त्रोपदेशस्यैव वैय र्थ्यप्रसङ्गात् । शास्त्रविषये च विप्रतिपद्यन्ते दार्शनिका इति तेषां भिन्नभिन्नदार्शनिकाभीष्टानां शास्त्राणां मध्ये कतमच्छास्त्रं श्रेयोमार्ग? इति भवत्येव जिज्ञासितार्य शास्त्रं श्रेयोमार्गरूपेण प्रेक्षावताम् । _अत्रैकेऽनाद्यनिधनजगजननस्थेमविनाशविहितादरवदीश्वरविरचितत्वेनैव शास्त्रस्य श्रेयोमार्गत्वमभिमन्यन्ते,अन्ये पुनरनाद्यनिधनताऽऽगमस्यैव श्रेयोमार्गत्वप्रयोजिका, अपरे तु कर्मकाण्डा

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 88