Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 12
________________ अर्थे महेन्द्रजालस्य, दक्षितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं, दुर्नयार्थे तथा मुनेः ॥ ३४ ॥ दूषयेदज्ञ एवोच्चैः, स्याद्वाद्वं न तु पण्डितः। अज्ञप्रलापे सुज्ञानां, न द्वेषः करुणैव तु ॥ ३५ ॥ इति सिद्धं जिनशासनस्य कषच्छेदतापपरीक्षायां शुद्धत्वेन प्रामाण्यात् श्रेयोमार्गत्वम् । शास्त्रलक्षणमपीत्थमेवाहुराप्ताः शासनात्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते, वचनं वीतरागस्य, तच्च नान्यस्य कस्यचित् ॥१॥ इति वीतरागवचनत्वञ्च तस्य पूर्वोक्तदोषाभाव एव सम्भवति, दोषसद्भावे च तस्य न वीतरागवचनत्वमपि तु महामोहावस्थावस्थितपुरुषकल्पितमित्यलं प्रसङ्गायातविचारचर्चया । एवं च जगत्कर्तृप्रतिपादितागमस्यापि न प्रामाण्यमर्हति, ईशस्य जगत्कर्तृत्व एव प्रमाणाभावात् । न च जगतः कार्यत्वेनासिद्धत्वात् कार्य तिम च कर्तृत्वेन कारणत्वादस्माकञ्च तत्कर्तृत्वासम्भवात्तत्कर्तृत्वेनैव तत्कार्यकारणभावनिर्वाहात्कथं प्रमाणाभाव इति वाच्यं, सामान्यकर्तृत्वेन कार्यत्वेन कार्यकारणभावस्वीकारेऽपि दृष्टेष्टार्थबाधादिदोषापत्त्या तन्नियमशरीरेऽसति बाधके इत्यधिकस्यापि प्रवेशनीयत्वेनेशस्य जगत्कर्तृत्वे प्रमाणस्यासिद्धत्वात् , प्रयोजनाभावाच्च दृष्टेष्टार्थबाधादिदोषश्च यथा स्यात्तथाऽस्मिन् ग्रन्थे पूर्वाचार्यविरचितग्रन्थवाक्येनैव प्रदर्शितं मया स्वाभ्यासार्थं, न तु ग्रन्थकर्तृत्वख्यातिगौरवेच्छया. इति, प्रमादबाहुल्येन क्षयोपशममान्येन च

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88