Book Title: Hallar Desh Charitram Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 4
________________ 40 धिग् धिग् जीवितमेतेषां यत्र देशे च केचन । धनिनोऽपि न भुञ्जाना धान्यं निष्पक्वमन्तरा ॥२३।। दुर्लभत्वेन भिक्षाया नैव काङ्क्षन्ति भिक्षवः । स्थातुं यत्र च दृश्यन्ते ते पराधीनवृत्तयः ॥२४|| महानटजटाजूट-स्पष्टशोभामबिभ्रतः । यत्रस्थानां वयस्थानामाननेऽपि च दाढिकाः ॥२५॥ सद्धर्मकर्मनिर्माणा-लङ्कर्मीणमनस्विनाम् । पृष्टमांसादनाभ्यास-प्रसितानां क्षितिस्पृशाम् ॥२६।। यस्मिन्मिथो मिलश्मश्रु-दाढिकाव्यपदेशतः । वदनेषु पिधानानि वेधाः क्रोधादिव व्यधात् ।।२७।। "युग्मम्" । स्वजनेऽस्वजने चापि परलोकं गते सति । अस्तोकशोका यल्लोका विलोक्यन्ते दिवानिशम्॥२८॥ हल्लीसकं वितन्वाना मण्डलीभूय निर्भयम् । सन्तप्तरजसः किञ्चि-दुच्छलन्त्यः क्षितेरिव ॥२९॥ चढूंषि मुकुलीकृत्य जल्पन्त्यश्छन्दसा सह । विकिरन्त्यः केशहस्ता-निर्वस्त्रीकृत्य मस्तकान्॥३०॥ मायाभयङ्कराकार-स्वरूपमकराकराः । दृश्यमाना जनैः साक्षाद् राक्षस्य इव सङ्गताः ॥३१|| भिन्नजातेर्जनस्यापि सति मृत्यावुप[त]स्थुषि । ब्राह्मणक्षत्रवैश्यानां शूद्राणां जातिजा अपि ॥३२।। चतुष्पथे मिथो भूत्वा निस्त्रपा यत्र च स्त्रियः । उरांसि स्तनसम्बाधं सर्वा अवधिषुः समम् ॥३३॥ "पञ्चभिः कुलकम्" । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6