Page #1
--------------------------------------------------------------------------
________________
अज्ञात - जैन मुनि कर्तृकं हाल्लार- देश - चरित्रम्
सं. मुनि धर्मकीर्तिविजय
आ एक नवतर अने कौतुकरागी रचना छे. हाल्लार (हालार) देश अने नवानगर (जामनगर) नुं तेमज त्यांना लोकोनुं अने तेमना रीत-रिवाजोनुं आमां उपहासभर्युं वर्णन छे. आना कर्तानुं क्यांय नाम नथी, छतां देखीती रीते ज आ कोई जैन मुनिनी रचना होवानुं परखाई आवे तेम छे. (श्लोक ४६, ४९ )
जैन श्रमणसंघनी परंपरा अनुसार, श्रमणोनी जुदी जुदी टुकडीओए, पोताना गच्छनायक के गुरुनी आज्ञानुसार, प्रत्येक वर्षे नवा नवा गाम/नगरमां चातुर्मास पसार करवानुं होय छे. आनो मुख्य आशय जे ते क्षेत्रना स्थानिक जैन समूहने धर्माभिमुख बनाव्ये राखवानो होय छे.
आमां बने एवं के साधुओ जुदा जुदा प्रदेशना जन्मेला अने रहेवासी होय; तेमनी भाषा, उछेर, रहेणी- करणी, रीत-रिवाज इत्यादि जुदी ज तरेहनुं होय. परंतु दीक्षा लीधा पछी तो तेमने माटे 'सब भूमि गोपालकी' बनी जाय; एटले साव अजाण्या अने अणदीठ प्रदेशोमां पण विचरवानुं अने रहेवानुं आवे. एमां कोइवार कोई मनस्वी साधुने क्षेत्रनी भाषा (बोली), खाणी पीणी, रिवाजो वगेरे जोईने नवुं नवुं लागे अने पल्ले न पण पडे; तो तेनुं त्यां रहेवुं कदीक ऊभडक पण थई जाय.
पण
प्रस्तुत रचना आवा कोई मनस्वी पण टीखळी मुनिए रची छे एम मानी शकाय, तेमने तेमना गुरुजनोनी आज्ञाना अन्वये नवानगरमा रहेवानुं बन्युं हशे, त्यांनी परिस्थिति, पोते अनेक देशोना अनुभवी (श्लोक २) होवा छतां, तेमना मनने माफक नहि आवी होय, तेथी चित्तमां जागेला अचरजने आ रचनारूपे तेमणे वाचा आपी हशे, तेम लागे छे.
पण आ उपहासात्मक वर्णन द्वारा पण, आपणने हालार - जामनगरना तत्कालीन पहेरवेश, खानपान, बोली इत्यादिनी जाणकारी मळे छे, ते तो खूब महत्त्वपूर्ण के उपयोगी बनी रहे तेवी छे, एम कहेवुं जोईए.
आ रचनानी बे पानांनी एक प्रति, छाणीना प्र. श्री कांतिविजयजी ग्रंथ भंडारमां छे. तेनी झेरोक्स नकलना आधारे यथामति संपादन करीने अत्रे रजू करवामां आवे छे. प्रति संभवत: अढारमा सैकामां लखाई हशे तेम जाणवा मल्युं छे. प्रति - प्रारंभे अधूरो नमस्कार छे, अने प्रांते " इति चरित्रं संपूर्णं" एम मात्र छे.
Page #2
--------------------------------------------------------------------------
________________
38
सकल प्रामाणिक ग्रामणी चूडामणि पण्डित श्री...।। नमस्कृत्य सरस्वत्याश्चरणं शरणं धियाम् । प्रवृत्तिः श्रूयतां तावत् कौतुकाय विनिर्मिता ॥१॥ अनेकदेशा अस्माभि श्चक्षुषोर्गोचरीकृताः । स कोप्यालोकितो नैव याति यस्योपमानताम् ॥२॥ यत्र च क्षत्रियाः शस्त्रे कुन्तनिस्त्रिंशनामनी । वहन्ति हन्त जल्पन्त-श्चित्तोन्नत्यावहं वचः ॥३॥ हस्ताधिकं च प्रपदा-न्मार्जयन्तमिवाऽवनिम् । आरक्तं धातुरागेण वराशि पर्यधुर्जनाः ॥४॥ स्नेहालापरसेनापि संसिक्ताः सिकता इव ।। यत्र च स्नेहरहिता जनताः सन्ति सर्वदा ॥५॥ शालिन शालिनी यत्र गोधूमो धूमसन्निभः । मुद्गाश्च मुद्गप्राया स्तुवरी न वरीयसी ॥६॥ चपलाश्च पलायन्ते नूनं नि:स्नेहभोजनात् । युगन्धरी तु यत्राभू-दबलात्वेन निश्चला ॥७॥ युगन्धरी धान्यधुरा-धौरेयत्वं च बिभ्रती ।। यत्र वर्यान्यधान्येषु मान्या धनवतामपि ॥८॥ दृष्ट्वा किमुज्झितं लोकै-विवेकसहजं निजं । यस्मादसूयया दान-मतिर्देशान्तरं गता ॥९॥ सहस्रवेधिदुर्गन्ध-मलिनाम्बरधारिणाम् ।। विवर्णानां कृतघ्नानां व्यभिचारविचारिणाम् ॥१०॥ क्षिप्तस्थूलोपलप्रायं विकत्थनविसंस्थुलम् । वाक्यं व्याहरतां शश्वत् कदन्नाभ्यवहारिणाम् ॥११॥
Page #3
--------------------------------------------------------------------------
________________
39
यस्मिन्निव दिवाकीर्त्ति मतिभ्रमवती सती । चकार भूस्पृशां स्पर्श चातुरी न कदाचन "त्रिभिर्विशेषकम्" ।
विलोक्यं सकलं लोकं यत्र निस्त्रिंशतान्वितम् । पावित्र्यं किमिव त्रस्तं विजहे न च कर्हिचित् ॥१३॥
॥१२॥
॥१५॥
॥१६॥
सुरभिद्रव्यताम्बूली- दलानां यज्जनावली । जानाति जातुचिदपि स्वप्नेऽपि न जनश्रुतिम् ॥१४॥ पुष्पावलोकनं लोक- लोचनेषु च कुत्रचित् । श्रूयन्ते श्रोतृभिर्यत्र पुष्पवत्यः स्त्रियस्तथा धान्यानां देववन्मान्या यल्लोकानां युगन्धरी । तदेव देवधान्यं किं जगुस्तन्नाम शाब्दिकाः क्वथितक्वाथसङ्काश - योत्राला स्थूलपौलयः । जायन्ते यत्र सर्वत्र कूपिकायाः पिधानवत् यस्मिन्नभ्यूषभोक्तारः प्रायः सर्वे दिवानिशम् । ये च केचिदपि क्वापि दक्षा वयमिति स्थिताः ||१८|| दिनावसानसमये निष्पक्त्रं शाकवर्जितम् । कटुक्षिप्रचयानं भोज्यं भुञ्जन्ति तेऽपि च “युग्मम्” ।
॥१७॥
॥२०॥
।
दैन्यं यस्मिन्नादधाना नीरसाहारकारिणः । भिक्षुभ्यो नातिरिच्यन्ते धनिनोऽपि च केचन यस्मिन् भूमिस्पृशामन्यत् स्वरूपं ब्रूमहे किमु पशवोऽपि हि नाश्रन्ति तामनन्ति युगन्धरी सौवीरवारिणा पक्व - धौतधान्याशना जनाः । यत्र निस्तेजसो रेज् - भूभुजा तर्जिता इव
॥२१॥
॥१८॥
||२२||
Page #4
--------------------------------------------------------------------------
________________
40
धिग् धिग् जीवितमेतेषां यत्र देशे च केचन । धनिनोऽपि न भुञ्जाना धान्यं निष्पक्वमन्तरा ॥२३।। दुर्लभत्वेन भिक्षाया नैव काङ्क्षन्ति भिक्षवः । स्थातुं यत्र च दृश्यन्ते ते पराधीनवृत्तयः ॥२४|| महानटजटाजूट-स्पष्टशोभामबिभ्रतः । यत्रस्थानां वयस्थानामाननेऽपि च दाढिकाः ॥२५॥ सद्धर्मकर्मनिर्माणा-लङ्कर्मीणमनस्विनाम् । पृष्टमांसादनाभ्यास-प्रसितानां क्षितिस्पृशाम् ॥२६।। यस्मिन्मिथो मिलश्मश्रु-दाढिकाव्यपदेशतः । वदनेषु पिधानानि वेधाः क्रोधादिव व्यधात् ।।२७।।
"युग्मम्" । स्वजनेऽस्वजने चापि परलोकं गते सति । अस्तोकशोका यल्लोका विलोक्यन्ते दिवानिशम्॥२८॥ हल्लीसकं वितन्वाना मण्डलीभूय निर्भयम् । सन्तप्तरजसः किञ्चि-दुच्छलन्त्यः क्षितेरिव ॥२९॥ चढूंषि मुकुलीकृत्य जल्पन्त्यश्छन्दसा सह । विकिरन्त्यः केशहस्ता-निर्वस्त्रीकृत्य मस्तकान्॥३०॥ मायाभयङ्कराकार-स्वरूपमकराकराः । दृश्यमाना जनैः साक्षाद् राक्षस्य इव सङ्गताः ॥३१|| भिन्नजातेर्जनस्यापि सति मृत्यावुप[त]स्थुषि । ब्राह्मणक्षत्रवैश्यानां शूद्राणां जातिजा अपि ॥३२।। चतुष्पथे मिथो भूत्वा निस्त्रपा यत्र च स्त्रियः । उरांसि स्तनसम्बाधं सर्वा अवधिषुः समम् ॥३३॥
"पञ्चभिः कुलकम्" ।
Page #5
--------------------------------------------------------------------------
________________
41
॥३४॥
यस्मिन्नुत्तमजातीनां द्विजातिवणिजामपि । निका(रा ?)सक्ताः स्त्रियस्तत्र प्राकृतस्त्रीकथा वृथा यस्मिन् वणिजविश्वस्ता हस्तेकृत्य वणिग्जनाः । आनयन्ति तथाप्येते ज्ञातिसम्बन्धवृत्तयः ॥३५।। वणिजा यत्र भुञ्जन्ति द्रव्यलिङ्गिसुखासिकाम् । कुप्रवृत्तिरियं तेति वक्ति कोऽपि नरः परम् ॥३६॥ यस्मिन्नेते च मातङ्गा इति व्यक्तिर्न लभ्यते । यतस्तत्स्पर्शसञ्जाता-नैवास्ति वचनीयता ॥३७॥ गोस्तनीपूगपुन्नाग-नागरङ्गाप्रियङ्गवः । प्रियालसालहन्ताल-तमालनवमालिकाः ॥३८॥ जम्बू हीबेर जम्बीर-निम्ब शिम्बाकदम्बकम् । नागवल्ली सल्लकी च मल्लिका गिरिमल्लिका ॥३९।। कदलीफल्गुबकुल नालिकेरी हलिप्रियाः । चम्पकाशोकवासन्ती मालती चूत केतकाः ॥४०॥ इत्यादितरवो यत्र नावतेरुः क्षिताविति । मन्ये मान्या वयं नास्मिन् यस्माल्लोका न भोगिनः
"चतुर्भिः कलापकम्"। यदन्वये निषादेन तिलकं तन्यते यदि । तदैव मेदिनीनाथ-स्थापना नान्यथा परम् ॥४२॥ स यत्र गोत्रासुत्रामा यामनामा निशाम्यते । कुत्सिताचार हल्लार देशोऽयं पश्चिमादिशि ॥४३॥
“युग्मं कुलकम्" । अपरेषु पुरेष्वेत-नवीननगरं पुरम् । तत्र किञ्चिदिवाभासी-दंधमध्ये यथैकग् ॥४४!!
॥४१॥
Page #6
--------------------------------------------------------------------------
________________ 42 तस्मिन्नेकस्वरूपाणि सर्वाणि नगराणि च / सहजानीव दृश्यन्ते वर्ण्यन्ते कानि कानि तत् // 45 // तत् पुरेषु चतुर्मासीमासीना मुनयश्च ये / उद्विग्ना बहु नाध्येतुं कुर्वन्ति कियदेतिकाम् // 46 // गृहे गृहे बम्भ्रमित्वा समादाय निरादरम् / नीरसां भिक्षुवद्भिक्षा-मनन्ति यतयो यतः // 47 // तस्मिन् जनपदे साधो-विबाधा जायते यदि / धौतधान्यं विना नैव लभ्यते लघुभोजनम् // 48|| गुर्वादेशवशादेव देशे तस्मिँस्तपस्विनाम् / जायन्ते तिष्ठतां कष्टा-दब्दानीव दिनान्यपि // 49|| अलब्धे तपसो वृद्धि-लब्धे देहस्य धारणा / इयं वृत्तिद्वयी तत्र-वर्तिनां व्रतिनामभूत् // 50 // यतयस्तत्पुरं त्यक्त्वा चतुर्मासादनन्तरम् / पुनः स्वप्नेऽपि नेच्छन्ति निर्मोकमिव भोगिनः // 51 // इत्यादि चरितं यस्य दृश्यते नैकशस्तव / तस्मै हे देश ! हल्लार ! दूरादथ नमोऽस्तु ते // 52 // // इति चरित्रं सम्पूर्णम् //