________________ 42 तस्मिन्नेकस्वरूपाणि सर्वाणि नगराणि च / सहजानीव दृश्यन्ते वर्ण्यन्ते कानि कानि तत् // 45 // तत् पुरेषु चतुर्मासीमासीना मुनयश्च ये / उद्विग्ना बहु नाध्येतुं कुर्वन्ति कियदेतिकाम् // 46 // गृहे गृहे बम्भ्रमित्वा समादाय निरादरम् / नीरसां भिक्षुवद्भिक्षा-मनन्ति यतयो यतः // 47 // तस्मिन् जनपदे साधो-विबाधा जायते यदि / धौतधान्यं विना नैव लभ्यते लघुभोजनम् // 48|| गुर्वादेशवशादेव देशे तस्मिँस्तपस्विनाम् / जायन्ते तिष्ठतां कष्टा-दब्दानीव दिनान्यपि // 49|| अलब्धे तपसो वृद्धि-लब्धे देहस्य धारणा / इयं वृत्तिद्वयी तत्र-वर्तिनां व्रतिनामभूत् // 50 // यतयस्तत्पुरं त्यक्त्वा चतुर्मासादनन्तरम् / पुनः स्वप्नेऽपि नेच्छन्ति निर्मोकमिव भोगिनः // 51 // इत्यादि चरितं यस्य दृश्यते नैकशस्तव / तस्मै हे देश ! हल्लार ! दूरादथ नमोऽस्तु ते // 52 // // इति चरित्रं सम्पूर्णम् // Jain Education International For Private & Personal Use Only www.jainelibrary.org