Book Title: Gyanbhandar Prashasti
Author(s): Pradyumnasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ श्री सीधरः प्रतिष्टां कथं न लभते परीक्षकप्रवरः । श्री जिनपति प्रतिष्ठां विधापयामास विधिना यः ।। ८ ।। तत्तनय पासवीरो गुणगंभीर: परीक्षिकोटीरः । यत् कारित गृहचैत्यं कस्य न चित्तं चमत्कुरुते ॥ ९ ॥ नवनवदंतभ्रमरी गजाऽश्व नररथसुतोरणादियुतम् । संप्रत्यपि चैत्यमिदं नृणां प्रीणाति चित्तानि ॥ १० ॥ पूतलि नाम्नी तस्य च भार्या शुभकार्यकरणनिष्णाता । देव गुरु निबिड भक्तिव्यक्तिप्रतिवासितस्वांता ।। ११ ।। जिनशासन प्रभावक पितृपक्ष स्वसुर पक्ष संपूर्णा । शोभा सौभाग्यवती पतिव्रता पूतलि र्जयति ॥ १२ ॥ पुत्रास्तयोस्त्रयोमी रामा देवाख्य वर्धमानाख्याः । विश्वोपकारकरणप्रगुणाः सगुणा विराजन्ते ॥ १३ ॥ कीकी-मानी नाम्ना भार्या युगलं विभाति रामस्य । देवाकस्य रमाई हांसीरिह वर्धमानस्य ॥ १४ ॥ देवस्य वर्धमानस्य पुत्रौ जातौ क्रमादिमौ । पुण्यपाल: सूरचंदो सूरचंद्रसमप्रभौ ॥ १५ ।। ततश्च ॥ श्री सूरीश्वर सोमसुंदर गुरु प्रष्टाः प्रतिष्टास्पंद । तत्पट्टे मुनिसुंदराख्य गुरवः सौभाग्यभाग्यालयाः । श्रीमंतो जयचंद्रसूरि गुरवः प्रज्ञाप्रकर्षाद्भुताः । सूरींद्रा गुरु रत्नशेखर इतिख्यातावदातास्ततः ।। १६ ।। लक्ष्मीसागरगुरवस्तत्पट्टे सुमतिसाधुसूरिवराः । तत्पट्टे विजयंते संप्रति गुरुहेमविमलसूरीन्द्राः ॥ १७ ।। तेषां च विजयराज्ये श्रीजिनमाणिक्यगुरुविनेयानां । श्रीगुरुअनंतहंसप्रवरगुरूणां सदुपदेशात् ।। १८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5