Book Title: Gangataili Drushtant Author(s): Ratnakirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ 100 अनुसन्धान-५८ कियत् [माहा] त्म्यं वर्ण्यते / [ई]दृशः पण्डितः [न] कुत्रापि।' ततो दक्षिणीयभट्टाचार्यो म(मा)नभ्रष्टस्त्वरितं स्वदेशाय चलितः / ततो भोजराजेन गङ्गातैली पृष्टः-को वादः कृतः ? ततस्तेनोक्तम्- भो राजन् ! स(म)म तेन भट्टेन एकाङ्गलिदर्शनेन ज्ञापितम् - 'त्वं काणोऽसि', मया अङ्गलिद्वयदर्शनेन ज्ञापितं - 'अहं त्वां द्वयोश्चक्षुषोः काणं करिष्यामि / ततो दक्षिणीयभट्टेन प्रलम्बहस्तदर्शनेन ज्ञापितम्- 'अहं त्वां चपेटया मारयिष्यामि' / ततो मया रोषं कृत्वा मुष्टिदर्शनेन ज्ञापितं - 'अहं त्वां मुष्टया घंकरणेन मारयिष्यामि / ' तदा राजादिका सर्वापि सभा सहर्षं हसति स्म। अहो ! अस्य दिनाः समीचीनाः, सुसिद्धिकोऽयम् / राज्ञा बहुसन्मानादिना सन्तोषितः स्वस्थानं गतः / सिद्धार्थो राजा वदति स्म-यूयमपि सुसिद्धिकास्तेन भवदुक्तं मम सत्यं भवत्विति / अथ (इति) गङ्गातैलीदृष्टान्तः सम्पूर्णः // -xPage Navigation
1 2 3