Book Title: Gangataili Drushtant Author(s): Ratnakirtivijay Publisher: ZZ_Anusandhan Catalog link: https://jainqq.org/explore/229543/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ ९८ गङ्गातैलीदृष्टान्तः अनुसन्धान-५८ सं. मुनि रत्नकीर्तिविजयः कोई फुटकळ ह.लि. पत्रमांथी ऊतारेलुं आ मनोरञ्जक दृष्टान्त छे. भोजप्रबन्धथी मांडीने लोकभाषा सुधी आ कथानक विविध रूपे प्रचलित छे. आने लोककथा ज कही शकाय. परन्तु तेनुं संस्कृत स्वरूप पण सहुना ध्यानमां आवे ते हेतुथी ते अहीं प्रगट कर्तुं छे. सन्दर्भ जोतां कल्पसूत्रनी वाचनामां सिद्धार्थ राजाना कोई प्रसंगमां, कोई साथेना संवादमां आ कथा उद्धृत करी होवानुं अनुमान थाय छे. ॥ ६० ॥ अत्र गङ्गातेलीदृष्टान्तमाह ॥ प्रोच्यते— सत्यमेतत् देवानुप्रियाः ! यद्यूयं वदथ सुसिद्धी(द्धि)कानां सर्वत्र स्यात्, गङ्गातैलीवत् । यतो यूयं सुसिद्धिकाः । तथा-कोऽपि विप्रो युवा विद्यार्थी प्रतिष्ठानपुरे दक्षिणदेशे गत्वा भट्टपार्श्वे सर्वविद्यास्त्रिंशद्वर्षैः पठित्वा जातगर्वो मस्तकेऽङ्कुशं धरन् विद्यया ‘उदरं मा स्फुटतु' इति उदरे बद्धपट्टः, 'यदि वादी नंष्ट्वा आकाशे याति तदा निःश्रेण्यामारुह्य अधः पातयामि' इति निःश्रेणीं सेवकस्कन्धे वहन् चिन्तयति 'यदि वादी पाताले प्रविशति तदा कुद्दालैः खानयित्वा निष्कासयामि' इति कुद्दालानपि सार्द्धे धरन्, 'यो ममाग्रे हारयति स तृणान् (नि) मुखे गृह्णातु' इति तृणपूलकं सेवककक्षायां धारयन्, वादेन दक्षिण- गौर्जर-मरुधरा[दि]देशवादिनो निर्जी(जि)त्य सरस्वतीकण्ठाभरणादीन् बिरुदान् वादयन् भोजराजसभां पञ्चशतपण्डितैर्विराजमानं (नां) श्रुत्वा उज्जयिन्यां समेतः । प्रवेशोत्सवादिना सन्मानदानपूर्वं उत्तारितः समीचीनस्थाने गतः । सभायामागतेन [तेन] भोजराजसमक्षं वादकरणेन कालिदास-क्रीडाचन्द्रभवभूतिप्रमुखाः पञ्चस(श)तपण्डिताः अपि जिता: । भोजराजेन विमृष्टम् -'अहो ! परदेशिना भट्टाचार्येण मदीया जिता:, मम पण्डितसभामहात्मं (माहात्म्यं) गतम् ।' इति चिन्तातुरः क्रीडार्थं वने गच्छन् एकाक्षं वहद् घाणीमध्यात् हस्तेन तैलं निष्कास्य कुम्भमध्ये तैलं क्षिपन्तं गङ्गानामानं तैलिकं पश्यति स्म । राज्ञा Page #2 -------------------------------------------------------------------------- ________________ फेब्रुआरी विचारितम् अहो ! काणस्य अस्य बुद्धिविज्ञानम् । युक्तं चैतत् । यतःषष्टिर्वामनके दोषा अशीतिर्मधुपिङ्गले । शतं च टुण्टमुण्डे च काणे संख्या न विद्यते ॥१॥ - २०१२ ततस्तमाकार्य्य राज्ञा पृष्टम् - अहो ! त्वं भट्टाचार्येण सह वादं करिष्यति (सि)? । तेन प्रोक्तम् ओम् ! किं दास्यति (सि) ? । का प्रतिष्ठाऽस्ति अटपटा-न्यायेन भवति कदाचित् । तत आदित्यवारे राज्ञा भट्टाचार्यः प्रोक्तं (क्तः) 'भो ! श्री भट्टाचार्य! मम भट्टास्त (त्व) या जितास्तत्स्य (स) त्यं परं अस्माकमेतेषां भट्टानां पाठको भट्टाचार्योऽस्ति । तेन सममद्य वादः क्रियताम् ।' दक्षिणभट्टाचार्येण प्रोक्तम् – ‘भव्यम्’ । - ९९ - I ततो भट्टाचार्यः सिंहासने उपनिवेशितः । अन्येऽपि कालिदासक्रीडाचन्द्रप्रमुखाः पञ्चशतभट्टाः समेताः । तेषामपि आसनानि राज्ञा दत्तानि । ततो गङ्गातैलीभट्टाचार्यः परिधापितः पञ्चाङ्गवेषः स्वर्णाभरणादिना विभूषितः स्थूलवपुः मदोन्मत्तहस्तीव आनीतः । राज्ञा (जा) उत्थितः । सर्वा सभापि उत्थिता । बहुमानसम्मानादिना राज्ञा सिंहासने निवेशितः । ततो दक्षिणीयभट्टाचार्येण विमृष्टम्अहं कृशवपुः, अयं स्थूलवपुः । कथङ्कारं वादेन जयिष्यामि । ततः किं वा कलहेन ? तत्त्वं पृच्छामि । ततो दक्षिणभट्टाचार्येण एकाङ्गुलीर्दर्शी (र्शिता । भोजराजभट्टेन क्रोधं कृत्वा अङ्गुलिद्वयं दर्शितम् । ततो जातचमत्कारेण दक्षिणभट्टाचार्येण प्रलम्बितपञ्चाङ्गलिको हस्त ऊर्ध्वकृतो दर्शितः, ततो भोजभट्टे[न] दृढा मुष्टिर्दर्शिता । ततो दक्षिणभट्टो मस्तकात् अङ्कुशं उत्तार्य उदरात् विद्यापट्टं छोटयित्वा निःश्रेणीं भग्ना (भङ्क्त्वा ) कुद्दालान् दण्डात् वियोज्य तृणपूलकं प्रज्वालयित्वा गर्वं मुक्त्वा सभासमक्षं भोजभट्टस्य पादयोर्लग्न: । 'अहो ! अहं न केनपि जितः परं त्वं महापण्डितस्त (स्त्व) या जितः । ' - भोजराजेन पृष्टम् – ‘को वादः कृतः ? अस्माकं श्राव्यताम् ।' भट्टाचार्यः प्राह-'अहो भोज ! मया एकाङ्गुलिदर्शनेन ज्ञापितं 'एक: शिवो जगत्कर्ताऽस्ति' । भवदीयभट्टेन विशेषो ज्ञापितोऽङ्गुलिद्वयदर्शितेन यत्- 'एकेन शिवेन किम् ? द्वितीया शक्तिरप्यस्ति' । पुनर्मया पञ्चाङ्गुलिदर्शनेन ज्ञापितम् – ‘इन्द्रियाणि पञ्च सन्ति' । त्वदीयभट्टाचार्येण मुष्टिदर्शनात् ज्ञापितं 'पञ्चेन्द्रिया[णि] बद्धानि दमितानि भव्यानि' । ततो भवदीयो भट्टाचार्यो महापण्डितो वैराग्यवान् च । Page #3 -------------------------------------------------------------------------- ________________ 100 अनुसन्धान-५८ कियत् [माहा] त्म्यं वर्ण्यते / [ई]दृशः पण्डितः [न] कुत्रापि।' ततो दक्षिणीयभट्टाचार्यो म(मा)नभ्रष्टस्त्वरितं स्वदेशाय चलितः / ततो भोजराजेन गङ्गातैली पृष्टः-को वादः कृतः ? ततस्तेनोक्तम्- भो राजन् ! स(म)म तेन भट्टेन एकाङ्गलिदर्शनेन ज्ञापितम् - 'त्वं काणोऽसि', मया अङ्गलिद्वयदर्शनेन ज्ञापितं - 'अहं त्वां द्वयोश्चक्षुषोः काणं करिष्यामि / ततो दक्षिणीयभट्टेन प्रलम्बहस्तदर्शनेन ज्ञापितम्- 'अहं त्वां चपेटया मारयिष्यामि' / ततो मया रोषं कृत्वा मुष्टिदर्शनेन ज्ञापितं - 'अहं त्वां मुष्टया घंकरणेन मारयिष्यामि / ' तदा राजादिका सर्वापि सभा सहर्षं हसति स्म। अहो ! अस्य दिनाः समीचीनाः, सुसिद्धिकोऽयम् / राज्ञा बहुसन्मानादिना सन्तोषितः स्वस्थानं गतः / सिद्धार्थो राजा वदति स्म-यूयमपि सुसिद्धिकास्तेन भवदुक्तं मम सत्यं भवत्विति / अथ (इति) गङ्गातैलीदृष्टान्तः सम्पूर्णः // -x